This page has not been fully proofread.

३६०
 
न्यायकोशः ।
 
विशेषो दृष्टान्त इत्यालंकारिका आहुः । ३ शास्त्रम् । ४ मरणमिति
काव्यज्ञा आहुः ( वाच० ) ।
 
दृष्टान्ताभासः -
 
निदर्शनाभासशब्दवदस्यार्थोनुसंधेयः ।
 
दृष्टार्थकः ~~~ (प्रमाणशब्द: ) [ क ] यस्येह दृश्यतेर्थः स दृष्टार्थः (वात्स्या०
११११८ ) । [ ख ] शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणगम्यार्थंकः
शब्दः ( गौ० वृ० १ । ११८ ) । यथा घटः पटः इत्यादिशब्दो दृष्टार्थकः ।
 
देवता ~~ अग्नीन्द्रादयः । निरुक्ते दैवतखण्डे देवतामेदानाह यास्कमुनिः ।
अग्र्यादिदेवपत्यन्तं देवताकाण्डमुच्यते । वाय्वादयो भगान्ताः स्युरन्तरि-
क्षस्थदेवताः ॥ सूर्यादिदेवपत्न्यन्ता द्युस्थाना देवता इति । देवतानां
प्राधान्यतस्त्रयस्त्रिंशत्त्वमुक्तम् । स्वस्वगणपत्नीसहितानां तासां त्रयस्त्रिंशत्को-
टिसंख्याकत्वमुक्तं पद्मपुराणे उत्तरखण्डे । यथा सदारा विबुधाः सर्वे
स्वानां गणैः सह । त्रैलोक्ये ते त्रयस्त्रिंशत्कोटिसंख्यातयाभवन् ॥ इति
( वाच० ) । देवतात्वं च [ क ] मन्त्रकरणकहविःकर्मकत्यागभागित्वेनो-
द्देश्यत्वम् (चि० ४ ) ( त० प्र० ४ पृ० १२३ ) । मध्रप्रयोज्यहविः-
संबन्धवखेनोद्देश्यत्वमिति यावत् । हविर्निष्ठं त्यागजन्यं फलम् स्वत्वम् ।
तदाश्रयतया ( तत्संबन्धितया ) उद्देश्यत्वम् इति तु वर्तुलार्थः । अत्र
पदप्रयोजनं कथ्यते । स्वर्गसंबन्धितयोद्देश्यत्वस्य त्यागकर्तरि सत्त्वात्तत्राति-
व्याप्तिवारणाय हविरिति । कोदात् कस्माददात् इति मन्त्रकरणकघृता-
दिरूपहविः स्वत्वभागितयोद्देश्यत्वस्य प्रतिग्रहीतरि सत्त्वात्तत्रातिव्याप्तिवार-
णाय मन्त्रपदं त्यागकर्तृमन्त्रपरम् । तपोविद्भ्यः पृथग्दद्यात् इत्यादिना
पार्वणादौ पत्न्या अपि स्वत्वभागितया तत्रातिव्याप्तिवारणायोद्देश्यत्वम् इति
( त० प्र० ख० ४ पृ० १२३ ) । [ ख ] द्रव्यत्यागोदे श्यत्वम् ( ग० व्यु ०
का० ११० ३ ) (कृष्ण० ) । वेदबोधिताबाधितद्रव्यस्वामित्वप्रकारेणेच्छा-
विषयत्वमित्यर्थः (वै० सा० द०) । यथा अग्नये स्वाहा पितृभ्यः स्वधेत्यादाव-
म्यादीनां चेतनानामेव देवतात्वम् ( त० प्र० ४ पृ० १२३ ) । अत्र देवतात्वे
प्रमाणम् अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवताः ।