This page has not been fully proofread.

न्यायकोशः ।
 
३५९
 
दृक्शक्ति–दृक्शक्तिरेकापि
 
-
 
विषयमेदारपञ्च विधोपचर्यते दर्शनं श्रवणं
मननं विज्ञानं सर्वज्ञत्वं चेति ( सर्व० सं० पृ० १६६ नकु० )।
दृष्टान्तः -१ [क] लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः
( गौ० १/१/२५ ) । लोकसाम्यमनतीता लौकिका नैसर्गिकं वैनयिकं
बुद्ध्यतिशयमप्राप्ताः । तद्विपरीताः परीक्षकास्तर्केण प्रमाणैरर्थ परीक्षितु-
मर्हन्तीति । यथा यमर्थं लौकिका बुध्यन्ते तथा परीक्षका अपि सोर्थो
दृष्टान्तः । दृष्टान्तविरोधेन हि प्रतिपक्षाः प्रतिषेद्धव्या भवन्तीति । दृष्टा-
न्तसमाधिना च स्वपक्षाः स्थापनीया भवन्तीति । अवयवेषु चोदाहरणाय
कल्पत इति ( वात्स्या० ११ १२५ ) । वृत्तिकारैरप्युक्तम् । लौकिकोप्रा-
तशास्त्र परिशीलनजन्यबुद्धिप्रकर्षः प्रतिपाद्य इति फलितोर्थः । परीक्षकः
शास्त्र परिशीलनप्राप्तबुद्धिप्रकर्षः प्रतिपादक इति फलितोर्थः । बुद्धेः
साध्यसाधनोभयविषयिण्याः तदभावविषयिण्या वा साम्यमविरोधो
यस्मिन्नर्थे सोर्थो दृष्टान्तः ( गौ० वृ० १ । १ । २५ ) । [ ख ] यत्र
लौकिकपरीक्षकाणां दर्शनं न व्याहन्यते सः ( वात्स्या ० १।१।१ ) ।
[ग] वादिप्रतिवादिनोः साध्यसाधनोभयप्रकारकतदभावद्वयप्रकारकान्य-
तरनिश्चयविषयः ( गौ० वृ० ११ ११२५ ) । [ घ] प्रत्यक्षविषयोर्थः
( न्या० वा० १ पृ० १६ ) । किमुक्तं भवति लौकिकपरीक्षकाणां
दर्शनाविघातहेतुरिति । एवं चात्मादिव्याप्तिरिति । दर्शनाविघातहेतुत्वेन
दृष्टान्ते वर्ण्यमान आत्मादि व्याप्तं भवति ( न्या० वा० १ पृ० १६) ।
[ ङ ] व्याप्तिसंवेदनभूमिः ( सर्व पृ० २३८ अक्ष० ) । [ च ]
वादिप्रतिवादिनोः संप्रतिपत्तिविषयोर्थः
( त० भा० पृ० ४२ )
महानसो दृष्टान्तः
( त० सं० ) । दृष्टान्तो द्विविधः । साधर्म्यदृष्टान्तः वैधर्म्यदृष्टान्तश्च ।
साधर्म्यदृष्टान्तः तः अन्वयदृष्टान्तः । स च साध्यसाधनोभयवत्ता निश्चयविषयः
( दि० १ पृ० ३२ ) । वैधर्म्यदृष्टान्तश्च व्यतिरेकदृष्टान्तः । तत्राद्यः
पर्वते वह्रिसाधने घूमवत्त्वस्य हेतोर्महानसः । द्वितीयः तत्रैव घूमस्य हेतो-
मेहाइदः इति ( त० मा० पृ० ४२ ) ( त० सं० ) । २ अर्थालंकार-

 
( दि० ) । यथा पर्वतो वह्निमान्धूमान्महानसवदित्यादौ