This page has not been fully proofread.

न्यायकोशः ।
 
३५७
 
मुखमालिन्यादि इति प्रशस्तपादाचार्यादयः (वै० उ० १०/१/१ पृ०
४१७ ) । कविकल्पलतायां लोकसिद्धानि कतिचिद्दुःखकारणानि दर्शि-
तानि । तानि यथा पारतन्त्र्यम् आधिः व्याधिः मानच्युतिः शत्रुः कुमार्या
नैः स्व्यम् कुग्रामवासः कुस्वामिसेवनम् बहुकन्याः वृद्धत्वम् परगृहवासः
वर्षाप्रवासः भार्याद्वयम् कुभृत्यः दुईलकरणककृषिः इति । एवम् वराहपु-
राणादावपि कतिचिद्दुःखकारणान्युक्तानि तानि तत एव वेद्यानि (वाच० ) ।
[ ख ] प्रतिकूलवेदनीयम् (वात्स्या ० १ । १ । २ ) ( त० सं० ) । प्रति-
कूलवेदनीयतया बाधनात्मकमित्यर्थः ( सर्व० ० २४६ अक्ष०) । अत्र
प्रतिकूलत्वं च द्विष्टत्वम् । अत्रेदं बोध्यम् । दुःखं प्रतिकूलवेदनीयतया स्वतो
द्वेषविषयः । दुःखसाधनं तु द्विष्टसाधनताज्ञानाद्वेषविषय: ( वाच०) इति ।
दुःखत्वज्ञानादेव सर्वेषां दुःखं स्वाभाविकद्वेषविषयः । दुःखसाधनं तु
द्विष्टसाधनत्वज्ञानाद्वेषविषय: (मु० गु० पृ० २२० ) । दुःखं द्वेषवि
षयः इति वाक्यवृत्तिः ( वाक्य० गु० पृ० २१ ) । [ग] द्वेषाज-
न्यद्वेषविषयः ( प्र० प्र० गु० पृ० १७ ) । [ घ ] अधर्मजन्यम्
सचेतसां प्रतिकूलम् ( भा०प० श्लो० १४६ ) । अधर्ममात्रासाधारण-
कारणकगुण इत्यर्थः ( सि० च० पृ० ३५ ) । तच्च दुःखमेकविंशति-
भेदभिन्नम् । तथाहि शरीरम् षडिन्द्रियाणि षडिषयाः षड़िधानि प्रत्य-
क्षाणि सुखं दुःखं चेति । तत्र शरीरं दुःखायतनत्वाद्दुः खम् । इन्द्रियाणि
विषया: प्रत्यक्षाणि च तत्साधनत्वात् । सुखं च दुःखानुषङ्गात् ।
दुःखं तु स्वरूपत एवेति । सिद्धान्तचन्द्रोदये च दुःखं चतुर्विधमित्युक्तम्
( सि० च० १० ३५ ) । देहेन्द्रियादिकं दुःखजनकत्वाद्दुः खत्वेनोप-
चर्यते ( ता० र० श्लो० ३२ ) । [ ङ.] बुद्धितत्त्वस्य परिणामविशेषः ।
सच रजःकार्यः इति सांख्याः ( सां० कौ० ) । अत्रोच्यते । दुःखं
त्रिविधम् । आध्यात्मिकम् आधिभौतिकम् आधिदैविकं चेति । तत्राध्या-
त्मिकं द्विविधम् । शारीरम् मानसं च । तत्र शारीरम् वातपित्तश्लेष्मणां
वैषम्यनिमित्तम् । मानसं तु कामक्रोधलोभमोहभयेर्ष्याविषाद विषयविशे-
पादर्शन निबन्धनम् । सर्वे चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् ।
 

 
-