This page has not been fully proofread.

३५६
 
न्यायकोशः ।
 
दीक्षा – १ नियमः । यथा द्वादश यागाङ्गदीक्षाः इत्यादौ । दीक्षणीयेष्ट्या
संपन्न: संस्कारो दीक्षा ( जै० न्या० अ० ६ पा० ५ अधि० ८ ) ।
२ उपनयनसंस्कार इति धर्मज्ञाः । ३ अभीष्टदेवमन्त्रग्रहणे तदुपदेश
इति तान्त्रिका आहुः । अत्रोच्यते दीयते विमलं ज्ञानं क्षीयते कर्मवासना ।
तेन दीक्षेति सा प्रोक्ता मुनिभिस्तन्नवेदिभिः ॥ इति ।
 
दीक्षाकारि पञ्चकम् – द्रव्यं कालः क्रिया मूर्तिर्गुरुश्चैव हि पञ्चमः ( सर्व ०
सं० पृ० १६४ नकुली० ) ।
 
दीपनम् – तारमायारमायोगो मनोपनमुच्यते ( सर्व० सं० १० ३७०
 
पात० ) ।
 
दीर्घत्वम् – १ (परिमाणम् ) इदं दीर्घम् इति व्यवहारसिद्धः परिमाण-
विशेष: ( बै० वि० ७१ । १७ ) । अवयवसंयोगविशेष इति केचित्
 

 

 
( दि० गु० पृ० २०६) । महत्त्वावान्तरमेद इति सांख्या आहुः
( वाच० ) । २ द्विमात्राकालिकाच्त्वमिति शाब्दिका वदन्ति । अत्र
शिक्षा एकमात्रो भवेद्धखो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु लुतो ज्ञेयो
व्यञ्जनं चार्धमात्रकम् ॥ इति ( वाच० ) । ३ सिंहकन्यातुलावृश्चिक-
राशिषु दीर्घत्वमिति ज्योतिः शास्त्रज्ञाः ( वाच० ) ।
 
दुःखम् – १ ( गुणः) [क] बाधनालक्षणम् (गौ० १ । १ । २१ ) । बाधना
पीडा । तदेव लक्षणं स्वरूपं यस्य तदित्यर्थ: ( गौ० वृ० १ । १ । २१ )
( मु० ) । दुःखं तु मनसैव गृह्यते । न्यायनये जीवमात्रवृत्ति चेति
विज्ञेयम् । सांख्यमते तु दुःखं चित्तादिधर्म इति ज्ञेयम् । न्यायनये
तल्लक्षणं च इतरद्वेषानघीनद्वेषविषयत्वम् । सर्पादावतिव्याप्तिवारणाय
इतरद्वेषानधीनेति द्वेषविशेषणं दत्तम् । तेन सर्पद्वेषस्य सर्पजन्यदुःखद्वेष-
जन्यत्वान्नातिव्याप्तिः ( न्या० बो० गु० पृ० २१ ) । अथवा अनिष्ट-
साधनताज्ञानानघीनद्वेषविषयत्वम् ( वाक्य० गु० पृ० २१ ) । दुःखत्वं
जातिविशेष: ( गौ० वृ० १ । १ । २१ ) (मु० ) । कणादश्च कण्ठतः
सुखदुःखयोर्मिथो भेदमाह (वै० १० ११ ११ ) । दुःखस्य कार्य च दैन्य-