2023-02-20 00:55:15 by ambuda-bot
This page has not been fully proofread.
न्यायकोश ।
३५५
०
११ १२ ) ( त० सं० ) । तथाप्युपाधिभेदाच्चतुर्विधा प्राची प्रतीची
उदीची दक्षिणा चेति ( त० कौ० पृ० ३ ) ( त० मा० पृ० ३१) ।
अत्रायं नियमः सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थितः इति ( मु० १
दि०० पृ० ९४ ) ( सि० च० १ पृ० १०) । यद्यपि दिगेकैव
तथाप्युपाधि मेदात्प्राच्यादिमेदव्यवहारः ( भा० प० श्लो० ४८ ) । का-
र्यमेदाच्च नाना ( बै० २।२।१३ - १४ ) । दिशि पञ्च गुणा वर्तन्ते ।
संख्या परममहत्परिमाणं पृथक्त्वं संयोगः विभागश्चेति ( त० भा०
पृ० ३१ ) ( भा०प० श्लो० ३३ ) ।
दिगुपाघिः – प्राच्यादिव्यवहारोपपादकं मूर्तद्रव्यम् । यथा उदयाचलः
प्राच्या उपाधिः (वै० २।२।१४ - १६ ) । दिगुपाधयः पञ्च मूर्तानि
पृथिवी आपः तेजः वायुः मनश्चेति ।
-
दिग्विशेषणता – ( स्वरूपसंबन्धः ) सर्वाधारतानियामको दिक्कृतविशेषण-
ताख्यः । अयमेव दैशिक विशेषणताशब्देन व्यवयिते ।
दिङ्मात्रम् – १ स्वल्पम् । २ एकदेशः । यथा दिमात्रमुदाह्रियते इत्यादौ ।
दिनम् १–सूर्यकिरणावच्छिन्नः कालः । यथा आयोजयत्स धर्मात्मा दिवसे
दिवस: दिवसेत्र च ( भा० उ० अ० १८२ ) इत्यादी ( वाच० ) ।
पुरुषार्थ चिन्तामणौ त्वित्थमुक्तम् । तिथिनैकेन दिवसश्चान्द्रमानेन की-
र्तितः । अहोरात्रेण चैकेन सावनो दिवसः स्मृतः ॥ आदित्यभागभोगेन
सौरो दिवस उच्यते । चन्द्रनक्षत्रभोगेन नाक्षत्रो दिवसः स्मृतः ॥ (५०
चि० पृ० २ ) । नाडीषष्टितमस्तत्र सावनो दिवसः स्मृतः । त्रिंशभागो-
र्कराशेस्तु दिवस: सौर उच्यते ॥ चान्द्रस्तु तिथ्यवच्छिन्नो भौमो
भूपरिधेर्मतः इति ( वाच० ) । दिवसश्चतुर्विधः मानुषपित्र्यदैवब्राह्मभे-
दात् । तत्र षष्टिदण्डात्मको मानुषो दिवसः । चान्द्रमासात्मकः पित्र्यः ।
सौरवर्षरूपो दैवः । ब्राह्मः कल्परूपः इति ।
दिवाकरः -- (तिथिः) सप्तभी । यथा रुद्रविद्धो दिवाकर इत्यादौ । रुद्रः
अष्टमी । दिवाकरः सप्तभी ( पु० चि० पृ० १०० ) ।