This page has not been fully proofread.

३५४
 
न्यायकोशः ।
 
अत्र सूत्रम् इत इदमिति यतस्तद्दिश्यं लिङ्गम् ( बै० २१२।१० ) इति ।
अस्मादिदं दूरम् अस्मादिदमन्तिकम् इति दैशिकपरत्वापरत्व बुद्धिर्यतस्तद्दि-
ग्लिङ्गम् । तथा दैशिक परत्वा परत्वा समवायिकारणसंयोगाश्रयतया दिक्
सिध्यति (वै० वि० २१ २ । १२० ) (मु० १) । दिक्च पूर्वादिप्रत्ययैरनु -
मेया । तेषामन्यनिमित्तासंभवात् ( त० भा०) । दूरत्वसंनिहितत्वज्ञानाधी-
नपरत्वापरत्वानुमेयेति यावत् ( प्र० प्र० ) (त० कौ० पृ० ३) । तथा
च तादृशपरत्वापरत्वे सासमवायिकारणके भावकार्यत्वाद्धटवत् इत्यनुमानं
द्रष्टव्यम् । अत्रासमवायिकारणं च दिपिण्डसंयोगः तदाश्रयो दिगिति
दिक्सिद्धिर्बोया । दिक् च पूर्वादिप्रसयलिङ्गा इति प्रशस्तपादैरुक्तम्
( प्रश० पृ० ८ ) । मूर्त द्रव्यमवधिं कृत्वा मूर्तेष्वेव द्रव्येषु एतस्मादिदं
पूर्वेण दक्षिणेन पश्चिमेन उत्तरेण पूर्वदक्षिणेन दक्षिणापरेण अपरो-
त्तरेण उत्तरपूर्वेण अधस्तात् उपरिष्टाच इति दश प्रत्यया यतो भवन्ति
सा दिक् । अत्रोच्यते । कृत्वैकमवधिं तस्मादिदं पूर्वं च पश्चिमम् । इति
निर्दिश्यते देशो यथा सा दिगिति स्मृता ॥ इति । दिग्लिङ्गाविशेषादिश
एकत्वेपि परमर्षिभिः श्रुतिस्मृतिलोकसंव्यवहारार्थ मेरुं प्रदक्षिणीकृ
वर्तमानस्य भगवतः सवितुर्ये संयुक्ता लोकपालपरिगृहीत दिक्प्रदेशास्तेषां
प्राच्यादिभेदेन दशविधा: संज्ञाः कृताः । अतो भक्त्या दश दिश:
सिद्धाः : । तथा च दिग्दशविधा । प्राची अवाची प्रतीची उदीची आ-
मेयी नैर्ऋती वायवी ऐशानी ऊर्ध्वा अधः इति ( बै० उ० २।२।१०)
(वै० २।२।१५ - १६ ) ( वराहपु० ) । तासामेव पुनर्देवतापरिग्रहव
शाद्दश संज्ञा भवन्ति माहेन्द्री वैश्वानरी याम्या नैऋती वारुणी वायव्या
चान्द्रमसी ऐशानी ब्राह्मी नागी च इति ( प्रशस्त० पृ० ८) । प्राच्या-
दिव्यवहार हेतुर्दिक (त० सं० ) । इयं प्राची इयं प्रतीची इत्यादिवाक्य-
प्रयोगरूपव्यवहारहेतुरित्यर्थः (वाक्य ० २ पृ० ५ ) । उदयाचलाधु-
पाधियोगात्प्राच्या दिव्यवहारभागित्यर्थः ( प्र० प्र० ) । तथा च प्राच्यां
घटः इत्यादिव्यवहारबलादुदयाचलसंयोगादिलक्षणघटा दिसंबन्धघटकत्वेन
दिक्सिद्धि: ( प० मा० ) । सा चैका विभ्वी नित्या च ( वै० २ २
 
4