This page has not been fully proofread.

न्यायकोशः ।
 
दान्तिकत्वम् – दृष्टान्तप्रयुक्तोपमेयत्वम् । यथा
मुखस्य दान्तिकत्वम् ।
 
३५३
 
चन्द्रवन्मुखमित्यादौ
 
-
 
-
 
दासः - दीयतेस्मै स्वामिना सर्व यथाभिलषितमिति दासः ( सर्व० सं०
पृ० १९९ प्रत्यभि० ) । दासभेदा मिताक्षरायामुक्ताः । गृहजात-
स्तथा क्रीतो लब्धो दायादुपागतः । अनाकालभृतस्तद्वदाहितः स्वामिना
च यः ॥ मोक्षितो महतवर्णाधुद्धप्राप्तः पणे जितः । तवाहमित्युपगतः
प्रव्रज्यावसितः कृतः ॥ भक्तदासश्च विज्ञेयस्तथैव वडवाहृतः । विक्रेता
चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः । ( मिताक्षरा २११८२ ) ।
दिक् – ( द्रव्यम्) अकालत्वे सत्यविशेषगुणा महती ( सर्व ० १०
२१९ औलू० ) । दिक्चानियतोपाध्युन्नायिकास्ति (वै० उ० २१२॥
१०) । कालस्तु नियतक्रियासंबन्धघटक एवेति न तस्य प्राच्या दिसंबन्ध-
घटकता (प० मा० ) । अयं भावः । भवति हि यदपेक्षया यो वर्त-
मानः स तदपेक्षया वर्तमान एव इति कालो नियतोपाध्युन्नायकः । दि-
गुपाधौ तु नैवं नियमः । यं प्रति या प्राची तं प्रत्येव कदाचित्तस्याः प्रतीची-
त्वात् इति (३० उ० २।२।१० ) । दिक् जगदाधारा निखिलकार्यनिमित्त-
कारणं च इति विज्ञेयम् ( सि० च० १ पृ० १०) (त० दी० १५०१०) ।
अत्र शाब्दिकाः शब्दतन्मात्रपरिणाम एवं दिक् इत्याहु: ( उ० म०
ठका० पृ० २० ) । दिशो लक्षणं च प्राच्यादिव्यवहारजनकतावच्छे-
दकमुख्य विशेष्यत्वम् ( वाक्य ० १ पृ० ५ ) । विभुत्वे सति दैशिकपर
त्वापरत्वासमवायिकारणसंयोगाश्रयत्वाद्युपाधिरूपं दिक्त्वम् (प० मा० ) ।
साच दिक् दूरान्तिकादिधीहेतुः ( भा०प० श्लो० ४७ ) । दूरत्वं
दैशिकपरत्वम् । तच्च बहुतरमूर्तसंयोग विशिष्ट पिण्डज्ञानादुत्पद्यते । अन्ति-
कत्वं तु दैशिकमपरत्वम् । तच्च अल्पतरमूर्तसंयोगविशिष्टपिण्डज्ञानादुत्पद्यते
( सि० च० १ पृ० १०) । तथा च इतोल्पतरसंयुक्तसंयोगाश्रयादिदं
बहुतरसंयुक्तसंयोगाधिकरणं परम् इतश्च संयुक्तसंयोगभूयस्त्वाधिकरणादिदं
संयुक्तसंयोगाल्पीयस्त्वाधिकरणमपरम् इति नियतदिग्देशयोः समानका-
लयोः पिण्डयोर्यतो द्रव्याद्भवति सा दिगित्यर्थः (वै० उ० २।२।१० ) ।
४५ न्या० को०