2023-02-20 00:55:13 by ambuda-bot
This page has not been fully proofread.
३५२
न्यायकोशः ।
इति (बाच० ) । २ परायत्तीकरणम् । तदायत्तीकरणं च तत्कर्तृक-
निर्णजनेच्छाप्रकाशको व्यापारः । यथा रजकस्य वस्त्रं ददातीत्यादौ
ददात्यर्थः । निर्णेजनं च मलापकर्षः । अत्र ददात्यर्थैकदेशे कर्तृत्वे
रजकस्य संबन्धविवक्षायां शैषिकी षष्ठी इति ज्ञेयम् ( ग० व्यु० का०
४ पृ० ९६ ) । शैषिकी षष्टी च षष्टी शेषे ( पा० सू० २/३/५० )
इत्यनेन सूत्रेण विधीयते । तदर्थश्च कारकप्रातिपदिकार्थातिरिक्तः
संबन्धरूपोर्थः शेषः तद्विवक्षायां षष्टी इति । ३ तत्कर्तृकताडनानुमति-
प्रकाशकव्यापारः । यथा हन्तुः पृष्ठं ददातीत्यादौ ददात्यर्थः । अत्रापि
ददात्यर्थैकदेशे कर्तृत्वे हन्तुः संबन्धविवक्षायां षष्ठी इति ज्ञेयम् । एवम्
संवाहकस्य चरणं ददातीत्यादावूहनीयम् ( ग० व्यु० का० ४ पृ०
९६ ) ( ल० म० सुब० पृ० १०१) । ४ उत्पादकव्यापारः । यथा
शत्रवे भयं ददातीत्यादौ ददात्यर्थः । अत्र ददातेः जनयति इत्यर्थो
भक्तिः । एवं च उत्पादकव्यापाररूपे धात्वर्थे भयरूपं यत् कर्म
तद्योगितयोद्देश्यत्वाच्छ वादे : संप्रदानत्वम् ( ग० व्यु० का० ४ पृ०
९५ ) । ५ संयोगविशेषानुकूलो व्यापारः । यथा खण्डिकोपाध्यायस्तस्मै
चपेटां ददातीत्यत्र ददात्यर्थः । चपेटा प्रसृतकरतलम् ( ल० म० सुब
पृ० १०१ ) । ६ बोधनम् । यथा न शूद्राय मतिं दद्यात् ( मनुः
अ० ४ श्लो० ८० ) इत्यादौ ददात्यर्थः । अत्र मतिशब्देन तज्जनकं
वेदादिरूपं शास्त्रमुच्यते ( ल० म० सुव० पृ० १०१ ) । कुल्लूकभ-
इस्तु मतिशब्देन दृष्टार्थोपदेश उच्यते धर्मोपदेशस्य पृथनिर्देशात् इत्याह
( मनु० टी० ४/८० ) । ७ छेदनम् । ८ पालनम् । ९ शुद्धिः ।
१० गजमदजलमिति काव्यज्ञा आहुः ( वाच ० ) ।
C
दाय: - यद्धनं स्वामिसंबन्धादेव निमित्तादन्यस्य स्वं भवति तत् ( मिता-
क्षरा अ० २ श्लो० ११४ ) ।
दायादबान्धवः – औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोरपन्नो-
पविद्धश्च दायादा बान्धवाश्च षट् ॥ ( मिताक्षरा० अ० २ श्लो० १३२) ।