This page has not been fully proofread.

न्यायकोशः ।
 
३५१
 
-
 
( जै०
 
परस्वत्वेन संबन्धः
 
दशापवित्रम् -[ क ] वासः खण्डः । यथा दशापवित्रेण ग्रहं संमार्टि
To न्या० अ० ३ पा० १ अधि० ७ ) । [ ख ] दशापवित्रं खण्ड-
पट: ( जै० सू० वृ० अ० ३ पा० १ सू० १२ ) ।
दा - ( धातुः ) उत्सर्ग पूर्वः स्वस्वत्वनिवृत्तिपूर्वः
( जै० सू० वृ० अ० ४ पा० २ सू० २९) ।
दाक्षायणयज्ञः - आवृत्या युक्तः प्रकृतो दर्शपूर्णमासात्मको यज्ञो दाक्षाय-
णयज्ञः । आवृत्तिप्रकारस्तु द्वे पौर्णमास्यौ यजेत द्वे अमावास्ये इत्या-
दिवाक्यशेषादवगग्यते ( जै० न्या० अ० २ पा० ३ अधि० ४) ।
दाक्षिण्यम् – तत्त्वज्ञानाभिनिवेशिनी बुद्धिः (न्या० क० पृ० १० ) ।
दानम् – १ [ क ] स्वस्वत्वध्वंस विशिष्टपरस्वत्वानुकूलेच्छा । यथा ब्राह्मणाय
धनं ददातीत्यादौ ददात्यर्थः । अत्र तादृशस्वत्वरूपधात्वर्यतावच्छेदक-
फल एव द्वितीयार्थान्वयः । उपेक्षायामतिव्याप्तिवारणाय परस्वत्वनिवेश:
( ग० व्यु० का ० २ ख० १ पृ० ४३) । [ख] स्वस्वत्वध्वंसानुकूलपरस्व-
त्वप्रकारिकेच्छा । दानं च न संप्रदानस्वत्वजनकम् अपि तु तत्स्वीकार एव
इति मताभिप्रायेणेदं निर्वचनम् । एतन्मते ब्राह्मणाय धनं ददातीत्यादौ
स्वस्वत्वध्वंसरूपफलाश्रयत्वाद्धनस्य कर्मता इति बोध्यम् ( ग० व्यु० का०
२ पृ० ४३ ) । [ग] मूल्यग्रहणं विना स्वस्वत्वध्वंसपरस्वत्व जनकत्याग
इति संप्रदाय: ( दि० गु० ) । यथा विप्राय गां ददातीत्यादौ ददात्यर्थः ।
अत्र मूल्यग्रहणं विना विप्रोदेश्यकगोवृत्तिखस्वत्वध्वंस
पर स्वत्व जनकत्या-
गानुकूलकृतिमान् इत्यन्वयबोध: ( का० व्या० पृ० ५ ) । [ घ ]
शास्त्रोक्त संप्रदान स्वत्वावच्छिन्नद्रव्यत्याग इति रत्नाकरप्रभृतयः । अत्रो-
द्देश्यपात्र विशेषो यदि न तद्रव्यं स्वीकरोति तदा सोपाधित्याग विशेष-
स्यानिर्वाहान दातुः स्वत्वं निवर्तत इति तन्मताभिप्रायो ज्ञेयः । [ ङ ]
शास्त्रोक्तसंप्रदानस्वत्वापादकद्रव्यत्याग इति केचिच्छास्त्रज्ञा आहुः ।
अत्रायमाशयः । प्रदानं स्वाम्यकरणम् इति मनुक्तेः दानमात्रात् संप्रदा-
नस्य तद्विषयज्ञानाभावदशायामपि स्वत्वमुत्पद्यते पितुः स्वत्वोपरमात्तद्धने
गर्भस्थस्येव इति । तथा च दत्तस्य प्रतिग्रहः न तु प्रतिग्रहघटितं दानम्
 
T