This page has not been fully proofread.

न्यायकोशः ।
 
-१ लगुडः । यथा घटं प्रति दण्डो निमित्तं कारणमित्यादौ । २
[ क ] ग्रहणावच्छिन्नशासनम् । [ख] ग्रहणपूर्वकशासनम् । यथा
प्रजाः शतं दण्डयति राजा गर्गाः शतं दण्ड्यन्त इत्यादौ दण्ड्यर्थः
इति व्यवहारशास्त्रज्ञा आहुः । शासनं नियन्त्रणम् । अत्र शतग्रहणानुकूलं
यत् प्रजानां शासनम् तत्कर्ता इत्येवं बोध: ( श० प्र० श्लो०
७३ पृ० ९८)।
 
-
 
दण्डनीतिः - विद्याविशेषः । तच्च अर्थशास्त्रम् ( कुल्लूक: मनु० टी०
७।४३ ) ( अमरः ) । यथा कामन्द किनीतिशास्त्रम् । अत्रोच्यते त्रयी
चान्वीक्षिकी चैव वार्ता च भरतर्षभ । दण्डनीतिश्च विपुला विद्यास्तत्र
निदर्शिताः ॥ इति ( मा० शा० अ० ५९ ) । त्रैविद्येभ्यस्त्रयीं विद्यां
दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांच लोकतः ॥
इति ( मनु० अ० ७ श्लो० ४३ ) ।
 
दण्डपारुष्यम् – परगोत्रेष्वभिद्रोहो हस्तपादायुधादिभिः । भस्मादिभिश्चोप-
घातो दण्डपारुष्यमुच्यते ॥ ( मिताक्षरा २ । २१२)।
 
३४८
 
दत्तम् – पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात्प्रत्युपकारतः । स्त्रीशुल्कादिग्रहार्थे च
दत्तं दानविदो विदुः ॥ ( मिताक्षरा २/१७६) ।
 
दचाप्रदानिकम् – दत्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति । दत्ताप्रदानिकं
नाम व्यवहारपदं हि तत् ॥ ( मिताक्षरा २११७५ ) ।
 

 
दमः - १ कुत्सितात्कर्मणो मनोनिवर्तनम् । २ बाह्येन्द्रियनिग्रह इति वेदा-
न्तिनः । ३ दण्डनमिति धर्मशास्त्रज्ञाः । ४ कर्दम इति काव्यज्ञा आहुः
( वाच० ) ।
 
दम्भ:-[ क] कपटेन धार्मिकत्वादिना स्वोत्कर्षख्यापनेच्छा ( गौ० वृ०
४।१३ ) । [ ख ] धार्मिकत्वेन ख्यापनम् । यथा अभिसंघाय तु फलं
दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥
( गीता० अ० १७ श्लो० १२) इत्यादौ ( उ० म० ) । [ग ]
अधार्मिकेणात्मनो धार्मिकत्वस्य ख्यापनमिति केचित् । यथा द्वेषं दम्भं
च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ( मनु० ) इत्यादौ ।