This page has not been fully proofread.

न्यायकोशः ।
 
३४७
 
स्थले संकेतश्च स्वजन्यबोधवत्वेनाभिप्रायविषयताषच्छेदकावच्छिन्न विषय-
कत्व स्वजन्यत्व एतदुभयसंबन्धेन युष्मत्पदप्रकारकबोधविषयकोम्युपेयते
( ग० शक्ति० टीका० पृ० ७५ ) । तत्र बोध: तादृशोभयसंबन्धेन
युष्मत्पदवान् भवतु इत्याकारकः संकेतो ज्ञेयः । [ग] संबोध्यश्चेतन-
स्त्वंपदार्थ इति शाब्दिकादय आहुः ।
 
त्वाष्ट्रम्- (नक्षत्रम्) चित्रा ( पु० चि०१० ३५७ ) ।
 
दक्षिणः -- १ [ क ] शरीरावयववृत्तिजातिमान् ( वै० उ० २।२।१०) ।
यथा पुरुषस्य दक्षिणभाग इत्यादौ । [ ख ] अवामो देहभागविशेष
इत्यपि केचित् । २ नायकनायिकाविशेषाविति साहित्यशास्त्रज्ञाः ।
३ परच्छन्दानुवर्ती । ४ कुशल इति काव्यज्ञाः ।
 
दक्षिणा - १ यज्ञायन्ते दानम् । अन्नाम्नायते तस्मान्नादक्षिणं हविः स्यात्
इति शतपथश्रुतिः । पुराणमपि अदत्तदक्षिणं दानं व्रतं चैव नृपोत्तम ।
विफलं तद्विजानीयाद्भस्मनीव हुतं हविः ॥ इति ( भविष्यपु० )
( वाच० ) । आनव्यर्थदान एव दक्षिणाशब्दो रूढः ( जै० सू० वृ०
अ० १० पा० २ सू० ३६ ) । २ ( दिक् ) [ क ] प्राच्यभिमुख-
पुरुषदक्षिणभागावच्छिन्ना दिक् ( वै० उ० २।२।१० ) ( वै० २।
२ । १५ ) । अत्र दक्षिणत्वं तु शरीरावयववृत्तिजातिविशेषः । [ ख ]
मेरुव्यवहितदेशावच्छिन्ना दिक् ( वाक्य० १ पृ० ५ ) ( न्या० बो० १
पृ० ३ ) (मु० १ पृ० ९४ ) ( वै० वि० २।२।१० ) । यथा
झळकी प्रामाइक्षिणस्यां दिशि विजयपुरम् ( विजापुर ) । अत्र च
झळकीनिष्ठ मेरु गिरिसंयुक्तसंयोग पर्याप्तसंख्या व्यापकसंख्या पर्यायधिकरण-
मेरुगिरिसंयुक्तसंयोगवन्मूर्तवृत्ति विजयपुरम् इति शाब्दबोधः । दक्षिण-
दिगधिपो भौमः । यथाह सूर्यः सोमः क्षमापुत्रः सैंहिकेयः शनिः
शशी } सौम्यस्त्रिदशमधी च प्राच्यादिदिगधीश्वराः ॥
॥ इति
( ज्योति० त० ) ।