This page has not been fully proofread.

न्यायकोशः ।
 
त्वक् – १ ( इन्द्रियम् ) [ क ] स्पर्शग्राहकं महदिन्द्रियम् ( न्या० म० १
पृ० १४ ) । त्वचि स्थितमिन्द्रियं त्वगिन्द्रियम् ( दि० १ पृ० ८५ ) ।
पृथिव्याधनभिभूतैर्वाय्ववयवैरारब्धं सर्वशरीरव्यापि त्वगिन्द्रियम् ( प्र-
शस्त ० ) । तच्च देहव्यापि त्वचि स्थितम् सूक्ष्मवायोः सखांशेनोत्पन्नं
बाताधिष्ठातृदेवताकं च इति केचिच्छास्त्रकारानुयायिन आहुः (वेदा०
सा० ) । त्वगिन्द्रियस्य वायवीयत्वे प्रमाणमनुमानम् । तच्च अनुमानम्
त्वगिन्द्रियं वायवीयम् द्रव्यत्वे सति रूपादिषु पञ्चसु मध्ये स्पर्शस्यैवाभि-
व्यञ्जकत्वादङ्गसङ्गिसलिल शैत्यव्यञ्जक व्यजनपवनवत् इति ( सि० च० १
पृ० ८) (मु० १ वायु० पृ० ८५ ) ( त० भा० प्रमेय० पृ० २६)
( प्र० प्र० इन्द्रि० पृ० ११ १२) । महदुद्भूतस्पर्शवद्रव्यम् उद्भूत-
स्पर्शच त्वगिन्द्रियेण गृह्यते । तेन वायुपरमाणु प्रदीपप्रभादयस्त्वचा न गृ-
ह्यन्ते । परमाणोर्महत्त्वाभावात् प्रभाया उद्भूतस्पर्शाभावात् ( न्या० म०
१पृ० ६ ) । एवम् रूपभिन्नं रूपत्वादिभिन्नं च यच्चक्षुर्योग्यं तत् त्वगि-
न्द्रियेणापि गृह्यते (मु० १ पृ० ११३ ) । किं च त्वगिन्द्रियं महत्त्वो-
द्भूतरूपस्पर्श वद्रव्यतद्वृत्ति कर्म सामान्यसमवायसंख्यापरिमाणपृथक्त्वसंयो-
गविभागपरत्वापरत्वस्नेहानामपि ग्राहकम् ( सि० च० वायुनि०
पृ० ८ ) । [ख] स्पर्शोपलब्धिसाधनमिन्द्रियम् ( त० मा० प्रमेय ०
पृ० २६) । [ ग ] जले शीतस्पर्शः इति स्पर्शप्रत्यक्षासाधारणं कारणम्
( प्र० प्र० इन्द्रिय० पृ० ११) । [घ ] शरीरव्यापकं स्पर्शग्राहक-
मिन्द्रियम् (मु० १ वायु० पृ० ८५ ) । यथा द्रव्याध्यक्षे त्वचो योगो
मनसा ज्ञानकारणम् ( भा०प० श्लो० ५८ ) इत्यादौ । यथा वा
देहव्यापि त्वगिन्द्रियम् ( भा०प० श्लो० ४४ ) इत्यादौ । २ वृद्धि
क्षयवद्रव्यसहजावरणं स्वगित्युच्यते ( वै० उ० ३।१।९ ) ।
त्वम् – [ क ] तत्कालीन संबोध्य चैत्रत्व मैत्रत्वादिविशिष्टः ( दि० ४ पृ०
१७८–१७९ )। [ ख ] स्वजन्यबोधाश्रयतया वक्रभिप्रायविषयतावच्छे-
दकत्वरूपस्वसंबोध्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नः ( ग० शक्ति०
पृ० ७३) । यथा भो चैत्र स्वमत्रागच्छेत्यादौ त्वंपदार्थः । युष्मत्पद-
-