2023-02-20 00:55:12 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
-
त्रिस्पृशा - एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । त्रिस्पृशा नाम सा
प्रोक्ता ब्रह्महत्यां व्यपोहति ( पु० चि० पृ० १७६) ।
-
त्रुटि: - १ द्व्यणुकं त्र्यणुकं वा । यथा परं वा त्रुटे : ( गौ० ४/२/१५ )
इत्यत्र त्रुटिशब्दार्थः । तदुक्तम् त्रुटेरवयवस्तदवयवो वा परमाणुरिति ( गौ ०
वृ० ४।२।१५) । त्रुटिश्च जन्यो द्रव्यावयवः । मीमांसकाचैवमाडुः ।
त्रुटावेवावयवधाराविश्रामात् त्रुटिरेव परमाणुरिति ( दि० १ पृ० ६९ ) ।
२ त्रसरेणुत्रिकं भुङ्क्ते यः कालः सा त्रुटिः स्मृता ( भाग० ३/१२/६ )
इति बादरायणाचार्या आहुः । अत्रोच्यते अणु परमाणू स्यात् त्रस-
रेणुस्त्रयः स्मृतः । जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥ त्रसरेणु-
त्रिक भुते यः कालः सा त्रुटि: स्मृता । तत्रिभागस्तु वेधः स्यात्
तैस्त्रिभिस्तु लवः स्मृतः ॥ निमेषस्त्रिलवो ज्ञेय आम्नातास्ते त्रयः क्षणः
इत्यादि ( भाग ० ३/१२/५ - ७ )
त्रुटिरिति गणका आहुः । अत्रोच्यते योक्ष्णोर्निमेषस्य खराम - (३०)
भागः स तत्परस्तच्छतभाग उक्ता । त्रुटिर्निमेषैधृति - ( १८) भिश्च
काष्ठा तत्रिंशता सद्गणकै: कलोक्ता ॥ इति ( सि० शि० ) । क्षणद्वया-
त्मकः कालस्त्रुटिरिति भरत आह । द्वौ निमेषौ त्रुटिर्ज्ञेया । अहोरात्रशब्दे
दृश्यम् । ३ संशय: । ४ अल्पम् इति काव्यज्ञा आहुः ( वाच० ) ।
। तत्परस्य शतभागकालरूपा
त्र्यणुकम् - त्रिभिद्वर्थ णुकैर्य दुत्पद्यते तत् ( त ० दी० १५०९) ( दि० १ २)
( त० कौ० १ पृ० ३ ) ( त० भा० प्रमेय० पृ० २८ ) ( सि०
च० १ पृ० ५) । तद्यथा गवाक्षरन्ध्रे तरणिकिरणस्थं निरीक्ष्यते ।
यद्रजः सर्वतः सूक्ष्मं त्र्यणुकं तन्निगद्यते ॥ इति ( सि० च० १
पृथिवी० पृ० ५ ) । त्रिभिः परमाणुभिरेव त्र्यणुकम् इति महादेवभट्टा
आहुः ( दि० १/२ पृथिवी० पृ० ६९ ) । संयुक्ताणुषङ्कं त्र्यणुकमिति
नास्तिका आहुः ( प० मा० ) । तच्च जन्यद्रव्यावयवः इति ज्ञेयम् ।
त्र्यणुकरूपेर्थे त्रसरेणुपदमपि त्रिभिः सहितो रेणुस्त्रसरेणुः इति व्युत्पत्त्या
प्रयोक्तुं युज्यते ( राम० १ पृथि० पृ० ६९ ) ।
०
४४ न्या० को०