This page has not been fully proofread.

३४४
 
न्यायकोशः ।
 
· इति ( भाग ० ३।१२।५ ) । २ महादेवभट्टास्तु त्रिमिः सहितो रेणुः
त्रसरेणुः इति व्युत्पस्या त्रिमिः परमाणुभिरेव त्रसरेणुः त्र्यणुकं वा
भवतीत्याहुः ( दि० ) ( राम० १ पृ० ६९ ) । ३ त्रयोणवस्त्रसरेणु-
रिति बादरायणाचार्या आहुः इति केचित् । ४ भिषजस्तु जालान्तरगते
सूर्यकरे ध्वंसी विलोक्यते । त्रसरेणुश्च स ज्ञेयस्त्रिंशता परमाणुभिः ॥
इत्याहुः । ५ सूर्यपत्नीति पौराणिका आहुः ( वाच० ) ।
 
-
 
त्राणम् - [क] अनिष्टनिवृत्त्यनुकूलो व्यापारः । यथा दस्युभ्यो मैत्रं
त्रायते रक्षति कुलालाद्धटं रक्षति इत्यादौ रक्षत्यर्थः । यन्निष्ठस्वदुःखो-
पधायकव्यापारविरहानुकूलव्यापारः तदपादानकं स्वकर्मकं रक्षणम् इति
परमार्थः । दस्युभ्य इत्यत्र भीत्रार्थानां भयहेतुः (पा० सू० १ । ४ । २५ )
इत्यनेनापादानसंज्ञा । तदर्थश्च अनिष्टविरहानुकूलव्यापाररूपत्राणार्थक-
धातुयोगे यदनिष्टप्रयोजकं तदपादानम् इति । अनिष्टं च दुःखमेव
(ग० व्यु० का० ५ पृ० १०६) । घटाद्यचेतनकर्मकरक्षणं च
यन्निष्ठस्वविनाशोपधायकव्यापारविरहानुकूलव्यापारः तदपादानकं स्वक-
र्मकं रक्षणमिति निर्वाच्यम् । कुलालाइटं रक्षतीत्यादौ प्रयोज्यत्वं पञ्चम्यर्थः ।
तथा च कुलालप्रयोज्यो यो घटनाशोपधायकव्यापारः तद्विरहानुकूल-
व्यापारकर्ता इति बोधः । यथा वा न कुर्वीतात्मनस्त्राणं गोरकृत्वा
तु शक्तितः ( मनुः अ० ११ श्लो० ११३) इत्यादौ । [ख]
केचित्तु अनिष्टपरिहारः । यथा चोरात्रायत इत्यादौ इत्याहुः । अत्र
चोरापादान कानिष्टपरिहारः इति बोधः ।
 
त्रिपुटी – मितिमातृमेय विषयिका प्रमा । यथा प्रभाकरमते सर्वस्य ज्ञानस्य
मितिमातृमेयविषयकत्वात् त्रिपुटीप्रत्यक्षतेति ( त० प्र० ख० ४
पृ० १२९ ) ।
 
त्रिमूर्तिनी – त्रिवर्षा कन्या ( कल्याणीशब्दे दृश्यम् ) ।
 
त्रिवृत् - स्तोमः । यथा त्रिवृद्वहिष्पवमानः ( जै० न्या० अ० १०/५/६
अधि० ७) ।