This page has not been fully proofread.

न्यायकोशः ।
 
३४३
 
त्यज् - ( धातुः ) त्यागः । अत्रोदाह्वियते । यथा वृक्षं खगस्त्यजतीत्यादौ
त्यजेरर्थः । अत्र द्वितीयाया विभागोर्थः । तेन वृक्षावधिकविभागबती या
विभागावच्छिन्नक्रिया तद्वान् खगः इत्याकारस्तत्र बोधः । अत्रेदं बोध्यम् ।
वृक्षावधिक विभागवत्वं च जनकत्वस्वाश्रयवृत्तित्व एतदुभयसंबन्धेनैव क्रि-
यायां ब्राह्यम् । अतः खगावधिक विभागस्य खगादाबसत्त्वात् खगं त्यजति
खगः इत्यादिको न प्रयोगः ( श० प्र० श्लो० ७२ पृ० ९२-९३ ) ।
यथा वा त्यजेदेकं कुलस्यार्थे प्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थ
आत्मार्थे पृथिवीं त्यजेत् ॥ (चाणक्य ० ) इत्यादौ त्यजेरर्थः ।
 
त्यागः - १ विभागावच्छिन्नक्रिया । न माता न पिता न स्त्री न पुत्रस्त्याग-
मर्हति ( मनु० अ० ८ श्लो० ३८९ ) । २ तस्यायं भवतु इत्यादि-
फलेच्छाधीनस्वस्वस्वाभावेच्छा । यथा एषोर्ष्य: शिवाय नमः इत्यादौ
नमःशब्दार्थस्त्यागः (ग० ब्यु० का० ४ पृ० ९९ ) । ३ तन्न मम इति
ज्ञानम् इच्छा वा ( म० प्र० पृ० ५३) । ४ स्वत्वध्वंसजनकेच्छा ।
यथा पुष्पेण विष्णुं यजते इत्यत्र यजेरर्थः ( श० प्र० ७२ लो०
पृ० ९५ ) । ५ स्वत्वध्वंसानुकूलव्यापार इति शाब्दिका वदन्ति ।
स च त्यागः सात्त्विक राजसतामसभेदेन त्रिविध इति वेदान्तिनः । स च
स्वत्वध्वंसः मूर्तद्रव्याणामेव भवति । अमूर्तद्रव्याणां तु वियोगमात्रम्
इति विज्ञेयम् ( वाच० ) ।
 
त्रसः - ( जीवः ) शङ्खगण्डोलकप्रभृतयश्चतुर्विधास्त्रसाः ( सर्व० सं०
-
पृ० ७० आई० ) ।
 
त्रसरः —तन्तुवायकृतसूत्रवेष्टनविशेषः ( अमरः काण्ड ० ३ संकी०
लो० २४ ) ।
 
त्रसरेणु: - १ त्र्यणुकम् । तद्यथा जालान्तरगते भानौ सूक्ष्मं यद्दृश्यते रजः ।
प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ इति ( मनु० अ० ८ श्लो० १३२ ) ।
सच जन्यद्रव्यावयव इति ज्ञेयम् । परमाणुद्वयेनाणुस्त्रसरेणुस्तु ते त्रयः इति
( ब्रह्मवै० पु० ) ( वाच० ) । अणु परमाणू स्यात्रसरेणुस्त्रयः स्मृतः