This page has not been fully proofread.

३४२
 
न्यायकोशः ।
 
तेजो वहयादिकं च । किंचित् अनुद्भूतरूपस्पर्शम् । यथा नायनं तेजः ।
किंचित् उद्भूतरूपमनुद्भूतस्पर्शम् । यथा चान्द्रं तेजः प्रदीपप्रभामण्डलं
च । अथवा चान्द्रप्रभायां स्पर्शोप्युद्भूत एव । किं तु जलीयस्पर्शेनाभि-
भवादुष्णस्पर्शो न गृह्यते (३०वि० २११३) (मु० १) (सि०
च० ) । किंचित् अनुद्भूतरूपमुद्भुत स्पर्शम् । यथा नैदाघं तेजः तप्त-
बारिभर्जनकपालादिगतं च तेजः ( बयादि ) ( बै० उ० २ । १ । ३ )
( त० मा० पृ० २७ ) ( वै० वि० २।१।३ ) । अत्रेदं बोध्यम् ।
सुवर्ण तेजस्तूद्भूताभिभूतरूपस्पर्शम् नानुद्भूतरूपस्पर्शम् । अनुद्भूत-
रूपत्वे अचाक्षुषं स्यात् । अनुद्भूतस्पर्शत्वे त्वचा न गृह्येत ।
अभिभवस्तु बलवत्सजातीयेन पार्थिवेन रूपेण स्पर्शेन च कृतः इति
( त० मा० अर्थ० पृ० २८ ) । तेजस्येकादश गुणा वर्तन्ते । भास्वर
शुक्लरूपम् उष्णस्पर्श: संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः
परत्वम् अपरत्वम् नैमित्तिकद्रवत्वम् वेगाख्यसंस्कारश्च ( त० भा० अर्थ
पृ० २७ ) ( भा०प० श्लो० ३० ) ( त० कौ० १ पृ० २)
( प्रशस्त ० ) । द्रवत्व विषये सूत्रम् त्रपुसीसलोहरजतसुवर्णानामग्निसंयो-
गावत्वमद्भिः सामान्यम् (वै० २।१।७) । उपलक्षणं चैतत् । तेन
कांस्य ताम्रारकूटपारद पित्तलरङ्गादीनामप्युपसंग्रह: (वै० उ० २ । १७)
(बै० वि० २ । १ ।७) ( त० कौ० पृ० २ )।
 
तैजसम् - १ तेजस्त्वव्याप्यधर्मवत् । यथा चक्षुस्तैजसम् सुवर्णं तैजसम्
इत्यादौ (मु० १ ) ( वै० उ० २ । १ ।७ ) । २ रजोगुणोत्पन्नः पदार्थ
इति सांख्या आहुः । अत्रोच्यते । वैकृतः सात्त्विको नाम तैजसो राजसः
स्मृतः । भूतादिस्तामसस्तेपि पृथक् तत्त्वान्यवासृजन् ॥ इति ( पदार्था-
दर्शघृतं वाक्यम्) । सात्त्विक एकादशकः प्रवर्तते वैकृतादहंकारात् ।
भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ इति ( सां० का० २५ ) ।
३ दशेन्द्रियजनकोहंकारतत्त्वप्रमेदः इति मध्वमतानुयायिनः ( मणि.
मञ्जरी १।३ ) । ४ अन्तःकरणं तैजसमिति मायावादिनः । ५ तीर्थ-
विशेष इति पौराणिकाः (वाच० ) ।