This page has not been fully proofread.

न्यायकोचः ।
 
३४१
 
लादि । अद्भिरिष्यते प्रकाश्यत इति विग्रहो द्रष्टव्यः ( सि० च० १
पृ० ७ ) । औदर्य पार्थिवजलोभयेन्धनं तेजः । तच्च भुक्तस्य परिणाम-
हेतु: ( जाठरानल: ) । आकरजम् अनुमयेन्धनं तेजः । तञ्च सुवर्ण-
त्रपुसीसरजतकका॑स्याद्यष्टकम् ( प्रशस्त ० ) ( तर्कसं० ) ( मु० १ पृ०
७९) (तर्ककौ० १ पृ० २) । अत्र के चिदाहुः । सुवर्ण पार्थिवम् तैजसं
चेति मिश्रितं वस्तु । तत्र तैजसम् अभिसंयोगानुच्छिद्यमानद्रवत्वाधि
करणम् । पार्थिवं तु अद्भुतं पीतरूपवत् इति । वस्तुतः द्रुतं पार्थिवमेव
सुवर्णम् न तु तैजसम् इति ( प० मा० ) । न्यायवैशेषिकनये सुवर्ण
तैजसमेव । तस्य तैजसत्वे प्रमाणमनुमानम् । तच्च सुवर्णमपार्थिवम् असति
प्रतिबन्धकेत्यन्तानलसंयोगे सत्यप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वात् यन्नैवं
तन्नैवं यथा पृथिवी (घृतादिः ) इति । जलमध्यस्थघृतादौ व्यभिचार-
वारणाय असति प्रतिबन्धके इति । अग्निसंयोगासमानाधिकरणद्रवत्ववति
घृतादौ व्यभिचारवारणाय अत्यन्तानलसंयोगे सति इति च विशेषणं
दत्तम् ( नील० १ पृ० ८ ) ( दि० १ पृ० ८१ ) । अनेनानुमानेना-
पार्थिवत्वसिद्धौ अत्यन्तानलसंयोगी पीतिमाश्रयः ( पृथिवी पक्षः ) द्रवस्व-
नाशप्रतिबन्धकद्रवद्रव्यान्तरेण ( तेजस्वाभिमतेन सुवर्णन ) संयुक्तः
(साध्यः ) अत्यन्तानलसंयोगे सत्यप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वे सति
गुरुत्वात् ( हेतुः ) जलमध्यस्थतवत् इत्यनुमानेन तैजसत्वसिद्धिर्द्रष्टव्या
( नील० १ पृ० ८-९ ) (मु० १ पृ० ८१ ) । अथवा सुवर्ण
तैजसम् असति प्रतिबन्धके अत्यन्ताग्निसंयोगेप्यनुच्छिद्यमानजन्यद्रवत्वा-
धिकरणत्वात् यन्नैवं तन्नैवं यथा पृथिवी इति व्यतिरेकिणा तैजसत्वसिद्धिः
(मु० १ पृ० ८१ ) । यद्वा पीतिमगुरुत्वाश्रयः पीतरूपभिन्नरूप प्रति-
बन्धकद्रवद्रव्यसंयुक्तः प्रहरपर्यन्तमनलसंयोगेपि पीतरूपभिन्नरूपाना-
श्रयत्वात् अनलसंयुक्तजलमध्य स्थितपीतपटवत् इति (वै० उ० २।१।७) ।
सुवर्णस्य तैजसत्वे अनेरपत्यं प्रथमं हिरण्यम् इत्यागमसंवादोपि ज्ञेयः
( न्या० सि० दी० पृ० ४० ) ( दि० १ पृ० ८१ ) । प्रकारान्तरेण
तेजश्चतुर्विधम् । किंचित् उद्भूतरूपस्पर्शम् । यथा सौरादि तेजः पिण्डितं
 

 
-