2023-02-20 00:55:11 by ambuda-bot
This page has not been fully proofread.
३४०
न्यायकोशः ।
तेजो०
कुतः ( माघ० स० २ श्लो० ६२) इत्यादौ सूर्यादीनां प्रौढप्रकाशः ।
तेजोलक्षणं च तेजस्त्वमेव । तच्च चन्द्रचांमीकरसमवेतत्वे सति ज्वलन-
समवेतं सामान्यम् ( सर्व० औलू० पृ० २१८ ) । जन्योष्णस्पर्श-
समवायिकारणतावच्छेदकतया सिद्धो जातिविशेषः । जन्यतेजस्त्वा-
वच्छिन्नसमवायिकारणतावच्छेदकतया सिद्धो जातिविशेष: (मु० १
10 पृ० ७८ ) ( दि० १ पृ० ७८) । शुक्कभास्वररूपसमाना-
धिकरणद्रव्यत्वव्याप्यजातिमत्त्वम् । सांख्यास्तु शब्दस्पर्शतन्मात्रसहिता-
दूपतन्मात्रा दुत्पन्नं शब्दस्पर्शरूपगुणं तृतीयं महाभूतं तेज इत्याहुः ।
अत्रोच्यते । तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते । अधिभूतं ततो रूपं
सूर्यस्तत्राधिदैवतम् ॥ इति ( भा० आश्व० ) । २ सात्त्विकोधिक्षेपा-
पमानादेरसहनरूपो नायकगुणविशेषस्तेज इति साहित्यशास्त्रज्ञाः ।
अत्रोच्यते । अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेप्यसहनं
तत्तेज: समुदाहृतम् ॥ इति ( सा० ८० ) । ३ हयवेग इत्यश्वशास्त्रज्ञाः ।
अत्रोच्यते । तेजो नाम दर्पापरनामा सत्त्वगुणविकार : प्रकाशकोन्तःसार-
विशेषः । यथाह भोजराजः । तेजो निसर्गजं सत्त्वं वाजिनां स्फुरणं रजः ।
क्रोधस्तम इति ज्ञेयास्त्रयोगि सहजा गुणाः ॥ इति । ४ रेतः ।
अत्रोच्यते । रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खल्वोजः ।
तदेव बलमित्युच्यते इति ( सुश्रु० ) । ५ सारः इति भिषजः ।
६ दीप्तिः । ७ प्रभावः । ८ पराक्रमः । ९ नवनीतं चेति काव्यज्ञाः ।
१० चैतन्यात्मकं ज्योतिरिति वेदान्तिन आहुः ( वाच० ) । न्यायमत-
सिद्धं तेजो द्विविधम् । नित्यम् अनित्यं च । तत्र नित्यं परमाणुलक्षणम् ।
अनित्यं कार्यलक्षणम् । अनित्यं त्रिविधम् । शरीरम् इन्द्रियम् विषयश्च ।
तत्र शरीरमयोनिजमेव । तच्चादित्यलोके प्रसिद्धम् । तच्च पार्थिवभागो-
पष्टम्भाचोपभोगसमर्थे भवति ( प० मा० ) ( प्रशस्त ० ) । इन्द्रियं
रूपग्राहकं चक्षुः कृष्णताराप्रवर्ति । विषयरूपं चतुर्विधम् । भौमम्
दिष्यम् औदर्यम् आकरजं च । तत्र भौमम् पार्थिवमात्रेन्धनं वयादि-
कम् खद्योततेजआदि च । दिव्यम् अबिन्धनं सौरचान्द्रवियुद्वडवान-