This page has not been fully proofread.

न्यायकोचः ।
 
अत्र येनाङ्गविकारः ( पा० सू० २/३/२० ) इति सूत्रेण तृतीया ।
तदर्थश्च येनाङ्गविकारो हानिराधिक्यं वा तदङ्गबोधकात् तृतीया इति ।
एवं च अत्र तृतीयाया वृत्तित्वमर्थः । तञ्च काणादिपदार्थेकदेशे विकारे-
न्वेति । काणत्वं च बहिरवच्छेदेन चक्षुःशून्यगोलकबस्वम् । प्रसन्ना-
न्धस्य काणत्वे तु चक्षुष्मद्गोलकवत्त्वे सतीति वाच्यम् । यदि बहिरव-
च्छेदेन चक्षुःसत्त्वेपि उपघातादेर्न चाक्षुषं तदोपहतगोलकवत्वमेव काण-
त्वम् । अक्षिपदं चक्षुष्मद्गोलकपरम् । तथा च तादृशगोलकवृत्ति य
चक्षुःशून्यत्वम् उपघातो वा तद्विशिष्टगोलकवान् इति अक्षणा काण:
इत्यस्यार्थः । परे तु अक्षणा काण इत्यादौ अभेदे तृतीया । तथा च
तादृशगोलकाभिन्नं यच्चक्षुः शून्यमुपहतं वा तद्वान् इति वाक्यार्थः इत्याहुः ।
खजत्वं च संस्थानविशेषशून्यपादवत्त्वम् । तथा च पादवृत्ति यत् तथा-
विधसंस्थानशून्यत्वम् तद्विशिष्टपादवान् इति पादेन खञ्जः इत्यस्यार्थः ।
एवम् मुखेन त्रिलोचन इत्यस्यापि मुखवृत्तिलोचनत्रयवान् इत्यर्थ: ( का ०
व्या० पृ० ८ ) । ४ विशेषणम् । यथा ज्ञायमानत्वेन लिङ्गं करणमित्यादौ
तृतीयार्थः । अत्र इत्थंभूतलक्षणे (पा० सू० २।३।२१ ) इत्यनेन
लक्षणवाचिपदात्तृतीयानुशिष्यत इति ज्ञेयम् । अयं भावः । अत्र लक्षणं च
व्यावर्तकम् । तच्च विशेषणोपलक्षणभेदेन द्विविधम् । तत्र विशेषणवाचिप-
दात् ज्ञायमानत्व इत्यस्मात् तृतीया इति (ग० ब्यु० का० ३
पृ० ९१-९२ ) । ५ उपलक्षणम् । यथा जटाभिस्तापस इत्यादौ
तृतीयार्थः । अत्रोपलक्षणत्वं च अतद्यावृत्त्यनवच्छेदकत्वे सत्यतद्व्यावृत्ति-
समानाधिकरणत्वम् । अस्ति च जटायामतापसव्यावृत्त्यनवच्छेदकत्वम् ।
शमदमादिमत्त्वस्यैव तदन्यूनानतिरिक्तवृत्तितया तदबच्छेदकत्वात् । यदि
शमादिना तापसः इति प्रयोग इष्टस्तदा विशेषणोपलक्षणैतदुभयसा-
धारणवैशिष्ट्यमेव तृतीयार्थ: ( का० व्या० पृ० ७ ) । अत्र जटावि-
शिष्टस्तापसः इत्याद्यनुभवेन विशेषणेनुशिष्टायाः इत्थंभूतलक्षणे (पा०
सू० २।३।२१ ) इत्यनेन विहितायास्तृतीयायाः वैशिष्ट्यम् अर्थः ।
वैशिष्ठ्यं चातव्यावृत्तत्वम् । तथा च अजटव्यावृत्तिमांस्तापसः इत्याकार-