2023-02-20 00:55:09 by ambuda-bot
This page has not been fully proofread.
या।
पतीत्यादी काष्ठेनेति तृतीया । तृतीयार्थच १ कर्तृलम् । यथा चैत्रेण
प्रामो गम्यते पुत्रेण सहागतः पितेल्यादौ तृतीयार्थः । चैत्रेणेत्यत्र कर्तृ-
करणयोस्तृतीया (पा० सू० २१३/१८) इत्यमेन कर्तरि विहिता
कारकतृतीया इति ज्ञेयम् । पुत्रेणेत्यत्र सहयुक्तेप्रधाने ( पा० सू०
२ । ३ । १९ ) इत्यनेन विहिता कारकार्थान्या तृतीया । अत्र कर्तृत्वं तृती-
यार्थः । सहशब्दसमभिव्याहृतपदोपस्थाप्यक्रिया ( आगमनम् ) सहश-
ब्दार्थः । एकदेशावच्छेदककालीनत्वसंबन्धेन तस्याः समभिव्याहृतक्रिया-
याम् आगतपदोपस्थाप्यायाम् अन्वयः । तथा च पुत्रकर्तृकागमन-
विशिष्टागमनकर्ता पिता इत्यर्थः ( का० व्या० पृ० ८ ) । शब्दशक्ति-
प्रकाशिकाकृतस्तु पुत्रेण सहागतः सूपेन सार्ध भुक्तः चक्रेण साकं दण्डेन
जनितः पुत्रेण समं मित्राय दानम् इत्यादौ सहायव्ययार्थेकदेशे कर्तृ-
त्वादिकारके स्वप्रकृत्यर्थस्याधेयत्वं तृतीयया बोध्यते । तेन पुत्रवृत्तिक-
तृताकगतिकालीनगतिकर्तृतावान् सूपनिष्ठकर्मताकभोजनकालीनभोजन-
कर्मतावान् चक्रनिष्ठकरणताकोत्पत्तिकालीनदण्डनिष्ठकरणताकोत्पत्तिमान्
पुत्रसंप्रदानताकदानकालीनं मित्रसंप्रदानताकं दानम् इत्याकारस्तत्र बोधः
इत्याहुः । अत्र सहाद्यव्ययार्थस्तु स्वान्वयितत्तत्कर्तृत्वादिकारकाषच्छि-
नायाः समभिव्याहृतक्रियायाः समानकालीनत्वरूपं साहित्यम् ( श०
प्र० श्लो० ९२ पू० ११९) । कचित् हेतुकर्तृत्वमपि तृतीयार्थः ।
तत्स्वरूपं प्रागुक्तम् (पृ० ३०६) । २ करणत्वम् । यथा कुठारेण वृक्षं
छिनचीज्यादौ तृतीयार्थः । साधकतमं करणम् (पा० सू० १ ४ ४२)
इति पाणिनिसूत्रेण करणसंज्ञा । साधकतमत्वं च असाधारणकारणत्वम्
ब्यापारवदसाधारणकारणत्वं वा ( म० प्र० १ पृ० ६ ) । तथा च
कर्तृकरणयोस्तृतीया (पा० सू० २१३११८) इत्यनेन तृतीया । अधिकं
तु करणशब्दव्याख्याने संपादितम् (पृ० १९९) । अत्र शाब्दिकाः । इयं
तृतीया द्विविधा । कर्तृतृतीया करणतृतीया च। तत्राद्याया आश्रयोर्थः ।
करणतृतीयायास्तु आश्रयव्यापाराबर्थी इत्याहुः ( बै० सा० ) । ३
इत्तित्वम् । यथा अक्षणा काणः पादेन खड्ज इत्यादौ तृतीयार्थः ।