2023-02-20 00:55:10 by ambuda-bot
This page has not been fully proofread.
स्तुल्यो न वधं प्राप्नुयानरः । सकामां दूषयंस्तुल्यों माङ्गुलिच्छेदमानुयात्
( मनुः ) कुम्भकर्णः कपीन्द्रेण तुल्यावस्थ: स्वसुः कृतः ( रघु० स०
१२ लो० ८० ) इत्यादौ । [ ख ] भिन्नत्वे सति धर्मवत्त्वम् । यथा
चैत्रेण चैत्रस्य वा तुल्य इत्यादौ । अत्र तुल्यशब्दार्थनिविष्टे च भेदे
तृतीयाद्यर्थस्य प्रतियोगित्वस्य धर्मे चाषेयत्वस्य अन्वयात् चैत्रत्वावच्छि-
नान्यस्वे सति चैत्रवृत्तिधर्मवान् इत्यर्थः । एवम् चैत्रेण चैत्रस्य वा सादृश्य-
मित्यादावपि द्रष्टव्यम् । अत्र विशेषो ज्ञेयः पाणिनीयाः तुल्योपमयोयोगे
तृतीयां नेच्छन्ति इति ( श० प्र० लो० ९२ पृ० १२४)।
२ [ क ] अन्यूनानतिरिक्तव्यक्तिकत्वम् । मथा न्यायमते बुद्धित्वज्ञानत्वयोः
घटत्वकळशत्वयोर्वा तुल्यत्वम् ( त० प्र० १ ) ( वै० उ० १।१ ) ।
इदं तु घटत्वकलशत्वादीनां भेदे भिन्नजातित्वे वा बाधकम् इति बोध्यम्
( दि० १/१ पृ० ३४ ) ( नील० ) । [ ख ] तुल्य व्यक्तिवृत्तित्वम् ।
स्वभिन्नजातिसमनियतत्वमिति फलितोर्थ: ( दि० १ । १ पृ० ३४ ) ।
यथा घटत्वकलशत्वयोस्तुल्यत्वम् ( त० प्र० १) ।
तुल्यवित्तिवेद्यत्वम् —–एकज्ञानविषयत्वम् ( त० प्र० ख० ४ पृ० २१ ) ।
यथा साधनवद्वृत्तिः साध्याभावो वा हेतुदोषः ( दीधि ० २ हेत्वा० )
इत्यत्र प्राचीनमते वह्निमद्वृत्तिर्धूमाभावः इति ज्ञाने घूमाभावे वहिमद्वृत्ति -
त्वस्य भासने वहौ धूमाभाववद्वृत्तित्वमपि तुल्यवित्तिवेद्यतया नियमतो
भासते ( ग० सामा० लक्ष० २ पृ० १७) । यथा वा गुरुमते आक्षे-
पाज्जातिविशिष्टव्यक्तिप्रतीतिः । अत्रायं विशेषो ज्ञेयः । तन्मते जातौ व्यक्तौ
च शक्तिः । परंतु जातिविषयकशक्तिज्ञानमेव जातिविशिष्टव्यक्तिविषयक
शाब्दबोधे कारणम् । व्यक्तिशक्तिस्तु स्वरूपसती ( न तु ज्ञाता ) उपयु-
ज्यते इति ( त० प्र० ख० ४ पृ० २१ ) । इदं च कुब्जशक्तिवादि-
गुरुमतैकदेशिनां मतम् इति ज्ञेयम् (त० प्र० ख० ४ पृ० २२) ।
तृतीया – ( कारकविभक्तिः ) तत्तद्धात्वर्थे करणत्वादिबोधिका विभक्तिः ।
कारकतृतीयालक्षणं च पच्यर्यधर्मिककरणत्वान्वयबोधानुकूलसुप्सजाती-
यत्वम् ( श० प्र० श्लो० ६५१० ७५) । यथा काष्ठेन तब्बु