This page has not been fully proofread.

२३२
 
न्यायकोशः ।
 
विष चैत्रेण पश्यते इत्यत्रापि तृतीययैव कर्तृत्वमनुभाब्यते न स्वारूयातेन ।
तिर्थ कृतेर्धात्वर्थविशेष्यत्वनियमात् इत्याहुः ( श० प्र० को० ९५ ५०
१४० ) । शाब्दिकास्तु कर्ता कर्म च भावश्च आख्यातार्थः इत्याहुः ।
अनुकूलव्यापारमात्रमाख्यातार्थः इति भट्टमीमांसका मण्डनमिश्राधाडुः ।
एतन्मते केबलं फलं धातोरर्थः इति ज्ञेयम् ( श० प्र० श्लो० ९५ पृ०
१४०) । कालः संख्यामात्रं सर्वत्राख्यातार्थः । पचतीत्यादौ धातुप्रतिपाद्यो
विक्विस्यनुकूलव्यापारो यज्ञं विनानुपपन्नः इति तेन यत्न आक्षिप्यते इति
प्राभाकराः । रत्नकोशकृतस्तु आख्यातार्थ उत्पादना । सा चोत्पादकता
सैव भावना । यथा पचतीत्यादावाख्यातस्य पाकमुत्पादयति इति विवर-
णात्तथा त्वम् इत्याहुः (चि० ४ ) ( श० प्र० पृ० १३९ ) । एतन्मते
व्यापारमात्रं धातोर्वाध्यार्थः इति ज्ञेयम् । एकत्वादिसंख्या वर्तमानादि-
कालच तिबर्थः । यथा चैत्रस्तण्डुलं पचतीत्यादौ तिबर्थकृतावेकत्वरूप-
संख्या वर्तमानकालश्चाख्यातेन प्रतीयते ( चि० ४) ।
 
-
 
तिथि: - चन्द्रार्कगत्या कालस्य परिच्छेदो यदा भवेत् । तदा तयोः प्रव-
क्ष्यामि गतिमाश्रित्य निर्णयम् ॥ भगणेन समप्रेण ज्ञेया द्वादश राशयः ।
त्रिंशांशध तथा राशेर्भाग इत्यभिधीयते ॥ आदित्याद्विप्रकृष्टस्तु भाग-
द्वादशकं यदा । चन्द्रमाः स्यात्तदा राम तिथिरित्यभिधीयते ॥ (पु० चि०
पृ० ३ विष्णुधर्मोत्तरे ) । खर्वो दर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम्
( पु० चि० पृ० ३६) ।
 
तिरोभावः – नाशः । सांख्यास्तु अनभिव्यक्तिस्तिरोभावः इत्याहुः ।
 
तु ( अव्ययम् ) १ पक्षान्तरम् । यथा आचारेण तु संयुक्तः संपूर्णफल-
भाग्भवेत् ( मनुः अ० १ श्लो० १०९ ) इत्यादौ । २ समुच्चयः ।
यथा उष्ट्र्यानं समारुह्य खरयानं तु कामतः । स्नात्वा तु विप्रो दिग्वासाः
प्राणायामेन शुद्धद्धति ॥ ( मनुः अ० ११ श्लो० १२१ ) इत्यादौ ।
३ पूजा । यथा माणवकस्तु भुङ्क्ते शोभनमित्यादौ ( पा० सू० १० ८।
१।३९ ) । अत्र सूत्रम् तुपश्यपश्यताहैः पूजायाम् (पा० सू० ८।१।