This page has not been fully proofread.

९ अधिकारः । १० संग्राम: ( वाच० ) । कचिद् पादपुरणार्थ वाक्या-
कंकारार्थ चापि तान्दः प्रयुज्यते । एतेष्वर्येषु केचिदर्याः कोशे
उक्काः । यथा याक्तावत्परिच्छेदे कार्ये मानावधारणे इति विश्वः ।
यावत्तावञ्च साकल्येवधौ मानेवधारणे इत्यमरः ( का ० ३ नानार्थव ०
श्रो० २४५) इति ।
 
-
 

 
तिङ - (विभक्तिः ) तिप्तझिसिप्० (पाणि० ३।४।७८) इत्यनेन
विहिताः प्रत्ययास्ति संज्ञका बोभ्याः । एतद्विचारस्तु कौमुद्यादौ द्रष्टव्यः ।
तिङ् शाब्दिकैरात्र्यातमित्युच्यते ( श० प्र० श्लो० ९५ पृ० १३७ ) ।
धात्वर्थावच्छिन्न स्वार्थयत्नविधेयताकान्वयबोधसमर्थः शब्दस्ति उच्यते
( श० प्र० श्लो० ९५ पृ० १३७ ) । यथा चैत्रः पचतीत्यादौ
तिबाख्यातम् । रथो गच्छतीत्यादौ तिबाख्यातेन व्यापारो निरूढलक्ष-
णया बोभ्यते । अत्र रथादीनामचेतनतया गमनानुकूलप्रयत्नशून्यत्वाद्या-
पार एव लक्ष्यते इति भावः ( न्या० म० ४ पृ० १८) (मु० ४ ) ।
जानाति इच्छति यत्नं करोति इत्यादाषाख्यातस्याश्रयत्वे लक्षणा । केचित्तु
स्थीयते इत्यत्राख्यातेन कृतिर्बोप्यते इत्याहुः । एतन्मते चैत्रेण स्थीयते
इत्यत्र चैत्रकर्तृका स्थित्यनुकूला कृतिः इति बोधः । कृतौ संख्याया
नान्वयः इति भावः । अन्ये तु चैत्रकर्तृका वर्तमानस्थितिः इति धात्व-
र्थविशेष्यक एव शाब्दबोधः । प्रत्ययस्य निरर्थकत्वम् इत्याहुः ( न्या०
म० ४ पृ० २० ) । अत्रेदमवधेयम् । उभयपदिधातूनां यत्र कियाफलं
कर्तृनिष्ठम् तत्रात्मनेपदम् यत्र च कर्तृभिननिष्ठं तत्र परस्मैपदं साधु । चिन्ता-
मणिकृतस्तु यत्र क्रियाफले कर्तुरमिप्रायः (इच्छा ) तत्रैवात्मनेपदम् इत्याहुः
( श० प्र० श्लो० ९७ पृ० १४४ - १४५ ) । अत्राधिकं तु आत्मनेपद-
शब्दव्याख्यानावसरे संपादितम् ( पृ० १२०) । तिबर्धश्च यज्ञः । यथा
चैत्रः पचतीत्यादौ यत्नः (कृतिः) तिबाख्यातस्य वाभ्यः (चि० ४) ।
कचित् समवायित्वम् आश्रयत्वं वा तिर्थः । यथा ईश्वरो जानाति इच्छति
रथो गच्छतीत्यादौ च । अत्र ज्ञानादिमत्वमात्रप्रतीतेः समवायित्वे तिबो
निरूढलक्षणेति भाषः । अत्रेदमवधेयम् । आश्रयत्वादौ तिङो निरूद्ध-

 
-