This page has not been fully proofread.

न्यायकोशः ।
 
तादृशम् - तुष्यदर्शनम् । यथा यादृशप्रतियोगिताबच्छेदकावच्छिन्नानवि-
करणत्वं हेतुमतः तादृशप्रतियोगितानबच्छेदकत्वम् (मु० २ पृ० १४५ )
इत्यादौ । यथा वा तथाविधं प्रेम पतिश्च तादृशः ( कुमा० स० ५
लो० २) इत्यादौ (वाच० ) ।
 
३२९
 
तात्रिकाः – ( मन्त्राः ) तन्त्रेषु कामिककारणप्रपञ्चाद्यागमेषु ये ये वर्णि-
तास्ते तात्रिकाः ( सर्व० सं० पृ० ३६८ पातञ्ज० ) ।
 
तापः – कपालानामङ्गारैः प्रतापनम् ( जै० न्या० अ० १० पा० १
अधि० ११) ।
 
तारतम्यम्यूनाधिकभावः । यथा रमाब्रह्मादयो देवास्तारतम्येन संयुताः
इत्यादौ । यथा वा तारतम्ययोगयुक्तांश्च भावान तिरूक्षानतिस्निग्धानत्यु-
ष्णानतिशीतानित्येवमादीन् विवर्जयेत् ( सुश्रुत० ) इत्यादौ । यथा वा
निर्धनं निधनमेतयोर्द्वयोस्तारतम्यविधिमुक्तचेतसाम् । बोधनाय विधिना
विनिर्मिता रेफ एष जयवैजयन्तिका ( उद्घटः ) इत्यादौ ।
 
तावत् - १ तदेत्यर्थः । यथा भर्तापि तावत्कथकैशिकानाम् ( रघु० स०
७ श्लो० ३२) इत्यादौ । २ साकल्यम् । यथा तावत्प्रकीर्णाभिनवोप-
वारम् ( रघु० स० ७ श्लो० ४ ) इत्यादौ । ३ अवधिः । यथा बधुं
न संभावित एव तावत् ( रघु० स० ७ लो० ६ ) इत्यादौ । आलो-
कमार्गप्राप्तिपर्यन्तमित्यर्थः । ४ मानार्थः । यथा त्वमेव तावत् परिचि-
न्तय स्वयम् ( कुमार० स० ५ श्लो० ६७) इत्यादौ । यावन्मात्रं
विचारणीयम् तावन्मात्रमित्यर्थः । ५ अवधारणम् । यथा इन्द्रप्रस्थगमस्ता-
वत् कारि मा सन्तु चेदयः ( माघ ० स० २ लो० ६३ ) इत्यादौ ।
मा कारि तावत् न क्रियतामेवेत्यर्थः (माघ ० टी० मलि० २१६३ ) ।
६ परिमाणविशिष्टम् । यथा जम्बूद्वीपोयं यावान् प्रमाणविस्तारतः ताबता
क्षीरोदधिना परिवेष्टित: (भाग० ५/२०१२ ) इत्यादौ । क्रियाविशेष-
णवे यथा पुरोस्य यावन्न भुवि व्यलीयत । गिरेस्तडित्वानिव ताबदुचकैः
(माघ ० स० १ श्लो० १२) इत्यादौ । ७ प्रशंसा ।८ पक्षान्तरम् ।
४१ न्या० को