This page has not been fully proofread.

३२८
 
न्यायकोशः ।
 
नुभावकम् तत् पदं तेन पदेन साकाम् इति तात्पर्यगर्भाकाङ्क्षाज्ञानका-
रणत्वाबश्यकतया आकयैव तात्पर्यज्ञानं हेतुः न तु स्वातध्येण
इत्याहुः (त० प्र० ख० ४ पृ० ९३ ) ।
 
तादर्थ्यम्-[क] तत्प्रयोजनकत्वम् । यथा यूपाय दार्वित्यादौ दारुण-
स्तादर्थ्यम् । अत्र स एवार्थः प्रयोजनमस्य तस्वम् इति व्युत्पत्तिः । अत्र
तत्प्रयोजनस्वं च समभिव्याहृतपदार्थनिष्ठव्या पारेच्छानुकुलेच्छा विषयत्वम् ।
तत्प्रयोजनकत्वरूपतादर्थ्य च तदिच्छाधीनेच्छा विषयव्यापाराश्रयत्वम् (ग०
व्यु० का० ४ पृ० ९८ ) । अत्र तादात्म्यत्वं च संबन्धताविशेषः
प्रतीतिसाक्षिकः ( त० प्र० १ पृ० ४५ ) । [ ख ] उपकार्योपकार-
कभावरूपः संबन्धः इति शाब्दिका वदन्ति । [ग] तदुद्देश्यकत्वमिति
केचित् ।
 
तादात्म्यम् – १ [क] तद्वृत्तिधर्मविशेषः । यथा प्राचीनोक्ते तादात्म्य-
संबन्धावच्छिन्नप्रतियोगिताको यः अभावः सोन्योन्याभावः इत्यन्यो-
न्याभावस्वरूपे निरूपणीये घटान्योन्याभाव इत्यत्र घटत्वमेव घटता-
दात्म्यम् । तादात्म्यं च संबन्धताविशेषः प्रतीतिसाक्षिकः । अत्रायं
भावः । घटान्योन्याभावबोधे घटत्वं संबन्धविधया प्रकारविधया च प्रति-
योगितावच्छेदकम् इति द्विविधतया घटत्वस्य भानम् । तदवच्छिन्नप्र-
तियोगिताकश्चान्योन्याभाव इति लक्षणसमन्वयः इति ( त० प्र० १
पृ० ४५) । [ ख ] स्ववृत्त्य साधारणो धर्मः । तादृशधर्मस्त व्यक्तित्वादि-
रूपः (ग० व्यु० का० १ पृ० ५ ) । यथा नीलो घट इत्यादौ
प्रथमाविभक्तेरभेदार्थकत्वमते नीलादिनिष्ठतद्व्यक्तित्वमेव नीलपदोत्तर प्रथम-
विभक्त्यर्थस्तादात्म्यम् । अत्रासाधारण्यं चैकमात्रवृत्तित्वम् ( ग० व्यु०
का० १ पृ० ५) । भेदसहिष्णुरमेदस्तादात्म्यमिति केचिद्वेदान्तिन
आहुः । मायावादिमते तत्सत्तातिरिक्तसत्ताकत्वाभावः इति तदर्थः
( वेदा०प० ) । मेदाभेदबुद्धिनियामकः संबन्धविशेषः इति सांख्या
आहुः ( सांख्य० मा० ) ( वाच० ) । २ ऐक्यम् । अत्र व्युत्पत्तिः सः
आत्मा यस्य स तदात्मा । तस्य भावः तादात्म्यम् इति ।