2023-02-20 00:55:07 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
.२४ ) (मु० ४ पृ० १८९ ) । अत्रायमाशयः । शुकवाक्याच्छाग्द-
बोध ईश्वरीयतात्पर्यज्ञानस्यैब
वेनाभिसंधापयितृत्वाभावेपि
कारणत्वं कल्प्यते । तेन शुकस्यार्थज्ञानाभा-
नाभिसंधापयितुरिच्छायास्तात्पर्यत्वानुपपत्तिः
शुकवाक्ये
इति ( त० प्र० ख० ४ पृ० ९२ ) । अत्रान्ये मन्यन्ते
विनैव तात्पर्यज्ञानम् शाब्दबोधः इति ( मु० ४ पृ० १८९ ) ।
सैन्धवमानयेत्यादौ सैन्धवपदम् आनयनपदार्थे लबणं प्रत्याययतु
इत्याकारिकाया वाक्यप्रयोक्तुरिच्छायाः सत्त्वालक्षणसमन्वयः ( म० प्र०
४ १० ५८ ) । एवम् श्वेतो धावति इत्याद्युदाहार्यम् (दि० ४ पृ० १८९ ) ।
अत्र विशेषे तात्पर्यग्राहकाणि प्रकरणान्येव भोजनादीनि गमनादीनि वा
विज्ञेयानि ( म० प्र० ४१०५०) । अत्रोक्तं भर्तृहरिणा संयोगो विप्रयो-
गश्च साहचर्ये विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥
सामर्थ्य मौचिती देश: कालो व्यक्ति स्वरादयः । शब्दार्थस्यानवच्छेदे
विशेषस्मृतिहेतवः ॥ इति । अत्रोदाहरणानि तु सशङ्खचक्रो हरिः इत्या-
दीनि ज्ञेयानि ( काव्यप्र० उ०२) । अत्रोक्तं कैश्चित् । प्रत्यक्षोपस्थिते-
नापि कलायेन तात्पर्यग्रहसहकारिणमासाद्य पचति इत्यत्रान्वयबोधः इति
( न्या० सि० दी० पृ० ४६ ) । कलायं शमीघान्यम् मुद्गादि । अत्र
मतमेदाः । शशधरादयः शाब्दबोधं प्रति तात्पर्यज्ञानस्य कारणत्वं नास्त्येव
इत्याहु: । केचित्तु सैन्धवमानयेत्यादौ नानार्थस्थल एव तात्पर्यसंशयादेः
संभवेन तत्रत्यशाब्दबोध एव तात्पर्यनिश्चयो हेतुः । न तु घटमानयेत्यादौ
घटादिशाग्दबोघे हेतुः इत्याहुः । परे तु घटादिशाब्दस्थलेपि घटपदम्
कुम्भपरम् लक्षणया पटपरं वा इति संशये घटशाब्दबोधाभावात् सर्वत्र
तात्पर्यनिश्चयः कारणम् इत्याहुः ( म०प्र० ४ पृ० ५८) । वस्तुतस्तु
नानार्थानुरोधेन शाब्दसामान्य एकपदार्थप्रकारकापरपदार्थ विशेष्यकप्रती-
तीच्छयोच्चरितत्वरूपतात्पर्यज्ञानस्यैव हेतुत्वम् (त०प्र० ख० ४ पृ० १४ )
(सि० च० ४ पृ० ३१ ) । अन्ये तु अयमेति पुत्रो राज्ञः पुरुषोपसा-
र्यतामित्यादौ राजपुत्रसंसर्गप्रतीतीच्छयोश्चरिते राज्ञ इत्यस्य पुरुषपदेन
साकाहुत्ववारणाय यत् पदं यत्पदव्य तिरेकेण तात्पर्यविषयीभूतार्थान्बयान-
३२७