2023-02-20 00:55:07 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
३२३
दी० २ पृ० २१ ) । तर्फे आपायव्यतिरेकनिश्चयः आपायापादकयो-
र्व्याप्तिनिश्चयश्च कारणम् इति ( नील० गु० १० ३८ ) । तर्के व्याप्यस्य
व्यापकस्य च बाधनिश्चयः कारणम् इति ( न्या० वो० गु० पृ० २१ ) ।
अत्रेदं बोध्यम् । तर्को न प्रमाणसंगृहीतः इति न प्रमाणान्तरम् । अपि तु
प्रमाणानामनुग्राहकस्तत्त्वज्ञानाय कल्प्यते । तस्योदाहरणम् किमिदं जन्म
कृतकेन हेतुना निर्वते आहोस्विकृतकेन अथाकस्मिकम् इति । एव
भविज्ञातेर्थे कारणोपपत्त्योहः प्रवर्तते । यदि कृतकेन हेतुना निर्वर्त्यते
हेतूच्छेदादुपपन्नोयं जन्मोच्छेदः । अथाकृतकेन हेतुना ततो हेतूच्छेद-
स्याशक्यत्वादनुपपन्नोयं जन्मोच्छेदः । अथाकस्मिकम् अतोकस्मान्निर्वर्त्य
मानं न पुनर्निबर्त्स्यतीति निवृत्तिकारणं नोपपद्यते । तेन जन्मानुच्छेद
इति । एतस्मिंस्तकं विषये कर्मनिमित्तं जन्म इत्यत्र प्रमाणानि प्रवर्तमानानि
तर्केणानुगृह्यन्ते । तत्त्वज्ञानविषयस्य विभागात् तत्त्वज्ञानाय कल्प्यते तर्क
इति । सोयमित्थंभूतस्तर्क: प्रमाणसहितो बादे साधनायोपालम्भाय
वार्थस्य भवति इति ( वात्स्या० १ । १ । १) । तर्कः संशयेन्तर्भवतीति
कश्चिदाह ( त० भा० पृ० ४४ ) । यद्यपि तर्को विपर्ययेन्तर्भवति
तथापि प्रमाणानुपाहकत्वाद्भेदेन कीर्तनम् ( त० दी० गु० पृ० ३८ ) ।
अत्र भाष्यम् । अविज्ञायमानतस्त्रेर्ये जिज्ञासा तावज्जायते जानीयेममर्थम्
इति । अथ जिज्ञासितस्य वस्तुनो व्याहतौ धर्मो विभागेन विमृशति
किंस्विदित्थम् आहोस्विनेत्थम् इति । विमृश्यमानयोर्धर्मयोरेकतरं कारणो-
पपत्त्या अनुजानाति संभवत्यस्मिन् कारणम् प्रमाणम् हेतुः इति । कारणो-
पपत्त्या स्यात् एवमेतत् नेतरत् इति । तत्र निदर्शनम् । योयं ज्ञाता ज्ञात-
व्यमर्थ जानीते तं तत्त्वतो जानीय इति जिज्ञासा । स किमुत्पत्तिधर्मकः
अथवानुत्पत्तिधर्मकः इति विमर्शः । विमृश्यमाने अविज्ञाततत्त्रेर्थे यस्य
धर्मस्याभ्यनुज्ञाकारणमुपपद्यते तमनुजानाति । यदायमनुत्पत्तिधर्मकः ततः
स्वकृतस्य कर्मणः फलमनुभवति ज्ञाता । दुःखजन्मप्रवृत्तिदोष मिथ्याज्ञाना-
नामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणम् । उत्तरोत्तरापाये तदनन्तराभावादप-
वर्ग इति स्यातां संसारापवर्गों । उत्पत्तिधर्म के ज्ञातरि पुनर्न स्याताम् ।