2023-02-20 00:55:06 by ambuda-bot
This page has not been fully proofread.
३२२
न्यायकोशः ।
त्रैविद्यो हेतुकस्तर्की नैरुक्को धर्मपाठकः । त्रयश्वाश्रमिणः पूर्वे परिषत्स्या-
दशावरा ॥ इति ( मनुः अ० १२ लो० १११ ) । ४ आगमाविरो-
धिन्यायः । यथा नैषा तर्केण मतिरापनेया ( कठोप० ३।९ )
इत्यादौ । तस्य प्रयोजनं चोक्तं मनुना आर्षं धर्मोपदेशं च वेदशास्त्राविरो-
घिना । यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ इति ( मनु० १२।१०६ ) ।
:
५ मीमांसा । ६ आगमार्थपरीक्षणम् । ७ [ क ] ऊहः । अविज्ञातत-
त्त्वेर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ( गौ० सू० १ । १।४०)।
अयमर्थ: । तर्क इति लक्ष्यनिर्देशः । कारणोपपत्तित ऊह इति लक्षणम् ।
अविज्ञाततत्त्वेर्थे तत्त्वज्ञानार्थमिति प्रयोजनकथनम् । कारणं व्याप्यम् ।
तस्योपपत्तिरारोपः । तस्मात् ऊह आरोपः अर्थाद्व्यापकस्य इति । परे
तु ऊह इत्येव लक्षणम् । तथा च कारणस्य व्याप्तिज्ञानादेरुपपादनद्वारे-
त्यर्थ इत्याहुः । ऊहत्वं च मानसत्वव्याप्यो जातिविशेषः तर्कयामि इत्यनु-
भवसिद्ध: ( गौ० वृ० १।१।४० ) । स च तर्क: व्यमिचारशङ्कानि-
वृत्तिद्वारेणोपयोगी ( न्या०ली०० पृ० ३६) प्रमाणानामनुप्राहकश्च ।
अनुग्रहस्तु पक्षे विपक्षजिज्ञासाविच्छेदस्तदनुग्रह: ( ता० र० श्लो० ७५ ) ।
किं च स तर्क: अङ्गपञ्चकसंपन्नस्तत्त्वज्ञानाय कल्पते । अङ्गपञ्चकं तु
व्याप्तिस्त र्काप्रतिहतिरवसानं विपर्यये । अनिष्टाननुकूलत्वमिति तर्काङ्ग-
पञ्चकम् ॥ ( ता० र० श्लो० ७२) । तर्कभाषायां प्रमाणानुग्राहकत्व-
मित्थमुपपादितम् । स चायं तर्क: प्रमाणानामनुग्राहकः । तथा हि
पर्वतोयं साग्निः उतानग्निः इति संदेहानन्तरं यदि कश्चिन्मन्यते अनग्निः
इति तदा तं प्रति यद्ययमनग्निरभविष्यत्तर्हि घूमवान्नाभविष्यत् इत्यषहि-
मत्त्वेनाधूमवत्त्वप्रसञ्जनं क्रियते । स चानिष्टप्रसङ्गः तर्क उच्यते । एवं
प्रवृत्तः तर्कः अनग्निमत्त्वस्य प्रतिक्षेपात् अनुमानस्य भवत्यनुग्राहकः इति
( त० भा० पृ० ४३ ) । अनिष्टप्रसङ्ग इत्यस्य अनिष्टस्य वड्यभाव-
व्यापक धूमाभावादेः प्रसञ्जनम् इत्यर्थः । अत्र हृदे निर्धूमत्वापादनव्यावृ
त्यर्थमनिष्टेति ( प० च० ) । किं च सर्को घूमाभ्योर्व्याप्तिग्रहे उत्पत्स्य-
माने कार्यकारणभाषभङ्गप्रसङ्गलक्षणो व्यभिचारशङ्कानिवर्तकश्च ( त०