2023-02-20 00:55:07 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
३२१
( तमोगुणः ) इति केचिद्वेदान्तिनः । अत्रोष्यते सत्त्वं ज्ञानं तमोज्ञानं
रागद्वेषौ रजः स्मृतम् इति ( मनुः १२/२६ ) । तमः अज्ञानमिति
पदच्छेदः । त्रिगुणात्मकप्रधानस्य तमआख्यो गुणविशेषः इति सांख्याः ।
या च मोहात्मकता तत्तमः ( सर्व० सं० पृ० ३२६ सां० ) । आलो-
काभाषस्तम इति नैयायिकादयः ( सर्व० सं० पृ० २२९ औलू० ) ।
२ राहुरिति ज्योतिर्विदः । ३ पादाग्रम् । ४ तमालवृक्ष इति काव्यज्ञाः ।
तर्क: - १ आन्वीक्षिकी विद्या न्यायशास्त्रम् ( गौ० वृ० १ । १ । १ ) । यथा
-
प्रायस्तर्कमधीते ( न्यायमधीते सर्व:) तनुते तर्कानिबन्धमप्यत्र ( दीधि●
२ श्लो० ४ पृ० १ ) गदाधरविनिर्मिता विषमदुर्गतर्काटवी ( ग० २
हेत्वा० बाघ० पृ० ३४ ) यत्काव्यं मधुवर्षि धर्षितपरास्तकेंषु यस्योक्तयः
(नैष० ) इत्यादौ । अत्र पुराणम् मीमांसा न्यायतर्कश्च उपाङ्गः
परिकीर्तितः इति । त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् ।
आन्वीक्षिकी चारमविद्यां वार्तारम्भांच लोकतः ॥ इति ( मनु० अ० ७
श्लो० ४३ ) । आन्विक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् इति ( मा०
अ० अ० ३७ ) । आन्वीक्षिकीत्रयीवार्तादण्डनीतिरूपाश्चतस्रो विद्या
विद्याप्रस्थाने कथिताः ( गौ० वृ० १ । १ । १ ) । २ कणादमुनिप्रणीतं
दशाध्यायात्मकं सूत्रोपनिबद्धं वैशेषिकदर्शनम् । यथा अथातो धर्मे
व्याख्यास्यामः (वै० सू० १११।१ ) इत्यारम्य तद्वचनादाम्नायस्य
प्रामाण्यमिति (बै० सू० १०२/९ ) इत्येतत्पर्यन्तं तर्कशास्त्रम् । द्रव्या-
दिपदार्थतत्त्वज्ञानं मननं चास्य शास्त्रस्य प्रयोजनमित्यवधेयम् ( त० व०
१ । २२ ) । अत्रोक्तम् तर्कग्रन्थार्थरहितो नैव गृह्णात्यपण्डितः इति
( सुश्रुत० ) । ३ अनुमानम् (युक्ति: ) ( तत्वप्रकाशिका ) ( दि० ४ )
( गौ० वृ० १।१ ) । यथा ॐ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेव-
मप्यनिर्मोक्षप्रसङ्गः ॐ ( म० सू० २११ १२ ) इत्यादौ । यथा
वा अचिन्त्याः खल ये भाषा न तांस्तर्केण योजयेत् । नाप्रतिष्ठिततर्फेण
गम्भीरार्थस्य निश्चयः ॥ ( वेदान्त० प्र० ) इत्यादौ । अत्रोक्तं मनुना
४१ न्या० को०