2023-02-20 00:55:06 by ambuda-bot
This page has not been fully proofread.
३२०
न्यायकोचः ।
इति तौतातिताः । नेति वैशेषिकादयः इति ( न्या० दी० पृ० ४ ) ।
[ख] द्रव्यगुणकर्मनिष्पत्तिवैधर्म्यादभावस्तमः ( बै० ५/२/१९) ।
इत्यर्थः ( वै० उ० ५/२/२० ) ।
उद्भूतरूपवद्यावत्तेजःसंसर्गाभाव
[ग] स्वपरप्रकाशकतेजःसामान्याभावः । यथा अदस्त्वया नुन्नमनुत्तमं
तमः । आसादितस्य तमसा नियतेर्नियोगात् ( माघ ० स० ४ श्लो० ३४ )
इत्यादौ । [ घ ] नीलरूपारो पविशिष्टतेजःसंसर्गाभाव इति केचित्
( न्या० दी० पृ० ८ ) । [ ङ ] भाभावः । द्रव्यगुणकर्मनिष्पत्ति-
वैधर्म्यात् ( न्या० क० पृ० १० ) । अत्रेदं बोध्यम् । यत्रैव देशे तेजो-
भावस्तत्रैव देशे तम इत्यभिलप्यते । एवं च सति गच्छता द्रव्येण तेजस
आवरणात् आवरकस्य द्रव्यस्य च गमनात् सुतरामेव तमसोपि गति-
भ्रम उपपद्यत इति ( त० व० ) । तेजसो द्रव्यान्तरेणावरणाच्च ( वै०
५/२/२० ) । तदर्थश्च गच्छता द्रव्यान्तरेणावृते तेजसि पूर्वदेशानुपल-
म्भादग्रिमदेशे चोपलम्भात्तेजोभावस्य गच्छद्रव्यसाधर्म्याद्गतिभ्रमः । न तु
वास्तवी तत्र गतिः । किं च नीलं नभः इति प्रतीतिवत् तमसि नीलरू-
पवत्ताप्रतीतिरपि भ्रम एव इति । अत्रायं तर्कः तमो यदि गतिमत्स्यात्
तेजोभावविषयकचाक्षुषसाक्षात्कारविषयो न स्यात् इति । यद्वा तमो
यदि गतिमत्स्यात् तेजोभावाविषयकचाक्षुषसाक्षात्काराविषयो न स्यात्
इति । अथवा तमो यदि तेजोभिन्नत्वे सति गतिमत्स्यात् तेजोभाववि-
षयकसाक्षात्कार विषयगतिमन्न स्यात् इति ( न्या० दी० पृ० ८ ) ।
रूपवद्रव्यान्तरं इति भट्टा वेदान्तिनः सांख्याः कन्दलीकाराचाहुः (वै०
वि० १।१।५ ) । अत्रेदमवधेयम् । आलोकस्यान्यत्र चाक्षुषप्रत्यक्ष सहका-
रित्वेपि तमः प्रत्यक्षे तत्सहकारस्यावश्यकता वस्तुस्वाभाब्यात् इति
भट्टमीमांसकानामाशयः इति । तमसो भावत्वमङ्गीकुर्वाणानां मते
तमसः पृथिव्यामन्तर्भावः । अथवा दशमं द्रव्यमतिरिक्तमेव तदिति
बोध्यम् । आरोपितं नीलरूपमिति श्रीधराचार्याः । रूपदर्शनाभावस्तम
इति प्राभाकराः । आलोकज्ञानाभाव इति प्राभाकरैकदेशिनः ( सर्व ०
सं० पृ० २२९ औलु० ) ( वै० वि० ११ १/५) । अज्ञानं तमः
१ अभावः इति पदच्छेदः ।