This page has not been fully proofread.

न्यायकोशः ।
 
३१९
 
लब्धप्रणाशापरीक्षितकारित्वानि इति । ७ धर्मज्ञास्तु कर्मणां युगपद्धा-
वस्तन्त्रम् ( काल्या० श्रौत० १।७१ ) । यथा मीमांसकमते उभयार्थैक-
प्रयोगः तन्त्रम् । यत्र प्रधानकर्मणां युगपद्भावः ( सह प्रयोगः ) तत्रारा-
दुपकारकाणामङ्गानां तन्त्रम् (सकृदनुष्ठानम् ) भवति न प्रतिप्रधानं पृथक्
पृथक् । यद्धि सकृत्कृतं बहूनामुपकरोति तत् तन्त्रमित्युच्यते । यथा बहूनां
मध्ये कृतः प्रदीपः इति ( कर्क: ) ( बाच० ) । तन्यते विस्तार्यते
बहूनामुपकारो येन सकृत्प्रवर्तितेन तदिदं तन्त्रम् ( जै० न्या० अ० ११
पा० १ अधि० १ ) । उभयोद्देशेन सक्दनुष्ठानं तन्त्रम् ( जै० न्या० १२
पा० १ अधि० १ ) । यत्सकृत्कृतं बहुनुपकरोति तत्तन्त्रम् ( जै० सू०
वृ० अ० ११ पा० १ सू० १ ) । कर्मज्ञाश्च अनेकोदेशेन कृतप्र-
योगः । यथा द्वौ दैवे प्राक् त्रयः पित्र्ये उदगेकैकमेव वा । मातामहाना-
मप्येवं तन्त्रं वा वैश्वदेविकम् ॥ ( याज्ञ० अ० १ श्लो० २२७ ) इत्यादौ
पितृश्राद्धे मातामहश्राद्धे च वैश्वदेवं तन्त्रेण ( सकृदनुष्ठानेन ) कर्तव्यम्
( मिताक्ष० अ० १ श्लो० २२७ ) इत्याहुः । ८ प्रबन्धः । ९ सिद्धान्तः ।
१० प्रधानम् । ११ परिच्छेदः । १२ वेदशाखा विशेषः । १३ स्वराष्ट्रचिन्ता ।
१४ औषधम् । यथा तन्त्रावापविदा योगैः ( माघः २१८८ ) इत्यादौ ।
१५ परच्छन्दानुगमनम् इत्यादि ( वाच० ) ।
 
तन्त्री – ज्योतिष्टोमे सवनीयपशुः (जै० न्या० अ० ११ पा०३ अधि० १६) ।
 
तन्मात्रम् – शब्दस्पर्शरूपरसगन्धाः पञ्च तन्मात्राणि । सांख्यास्तु सूक्ष्मप-
अभूतरूपमाकाशादि इत्याहुः ( वाच० ) ।
 
तपः – विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं प्राडु-
-
 
स्तपसां तप उत्तमम् ॥ ( सर्व० सं० पृ० ३६७ पात० ) ।
 
#
 
तमः – १ (अभावः) [ क ] तेजसः अभावः (मु० १) (गौ० दृ० ५/२/२०)
( त० दी० पृ० ३ ) । प्रौढप्रकाशकतेजःसामान्याभाव इत्यर्थः । तेन
तमस्वत्यपि देशे तेजः परमाण्वादिसत्त्वेन तेज: सामान्याभावासत्त्वेपि न
क्षतिः ( नील १ पृ० ४ ) । अत्र विप्रतिपत्तिः अन्धकारत्वं भाववृत्ति