2023-02-20 00:55:05 by ambuda-bot
This page has not been fully proofread.
३१८
न्यायकोशः ।
समन्वयः ( श० प्र० श्लो० ३५ पृ० ४६ ) । यथा वा पौर्वशालः
षाण्मातुरः इत्यादौ । अत्र पूर्वस्यां शालायां भवः पौर्वशालः षण्णां मातृणा-
मपत्यम् षामातुरः इति विग्रहो द्रष्टव्यः ( सि० कौ० ) ( मनोरमायाम् ) ।
तद्व्यक्तित्वम् - १ तत्तत्तादात्म्यविशिष्टो धर्मः । यथा घटनिष्ठं तद्व्यक्तित्वं
च घटतादात्म्यविशिष्टघटत्वादिकमेव । २ अखण्डोपाधिविशेष इति
केचिदाः । तादात्म्यस्य घटादिस्वरूपतामते तु घटादिनिष्ठं तव्यक्तित्व-
मखण्डमेव इति (ग० शक्ति० टी० पृ० ११७ ) ।
-
तनुत्वम् – प्रतिपक्षभावनया शिथिलीकरणम् ( सर्व० सं० पृ० ३५९
पात● ) ।
तत्रम् – १ इतरेतराभिसंबद्धस्यार्थसमूहस्योपदेशः शास्त्रम् ( वात्स्या ०
१ । १ । २६ ) । यथा तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ( गौ०
१ । १ । २६ ) इत्यादौ तन्त्रम् । २ शास्त्रविशेषः । यथा इदानीं संप्रव-
क्ष्यामि तन्त्रमुत्तरमुत्तमम् ( सुश्रुत० ) इत्यादौ । यथा वा आसुरिरपि
पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम् । सप्तयां किल येर्थास्तेर्थाः
कृत्स्नस्य षष्टितन्त्रस्य ( सांख्यका० ७२) इत्यादौ । शिवायुक्तानि
सिद्धेश्वरादीनि महातन्त्राणि तथान्यान्युपतन्त्राणि सैद्धायुक्तानि बहूनि
सन्ति । विस्तरभयात्तानि न प्रदर्शितानि । ३ प्रयोजकम् ( दि० 8
पृ० १७४ ) । यथा चैत्रेण पच्यते तण्डुल इत्यादौ चैत्रपदोत्तरतृतीयायां
चैत्रगतसंख्यानभिधानं तन्त्रम् (मु० ४ पृ० १७४ ) । यथा वा नीलो
घट इत्यादावभेदान्वयबोधं प्रति समानविभक्तिकत्वं तन्त्रम् ( ग० ब्यु०
का० १ ) । ४ सकृदुच्चारितस्यैकस्य शब्दस्य शक्त्या अनेकार्थप्रतिपाद-
कत्वं तन्त्रम् इति शाब्दिका वदन्ति । ५ विवक्षितार्थज्ञापकं तन्त्रम् इति
वेदान्तिनः । तदुक्तम् तन्त्रं साधनमुद्दिष्टं तन्त्रं ज्ञापकमेव च इति ( मध्व-
भाष्यटीकाटिप्पणे एकादशतात्पर्योक्तिः ) । ६ नीत्यवयवः । यथा तन्त्रैः
पञ्चभिरेतञ्चकार सुमनोहरं शास्त्रम् ( पञ्चत० पृ० १ ) इत्यादौ इति
नीतिशास्त्रज्ञाः । तानि च पञ्च तन्त्राणि मित्रमेदमित्र प्राप्तिकाकोलूकीय-