2023-02-20 00:55:05 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
।
तद्धिताः (पा० सू० ४।१।७६ ) इत्यधिकृत्य यूनस्तिः ( पा० सू०
४।१।७७ ) इत्यारम्यापञ्चमाध्यायसमाप्तेर्यावन्तः प्रत्यया विहितास्ते
तद्धितसंज्ञका भवन्ति इति । तत्र सामान्यतस्तद्धितो द्विविधः । प्रकृत्यर्थ-
भिन्नार्थकः स्वार्थिकश्चेति । तद्धितप्रत्ययश्च अपत्यादितत्तदर्थभेदबोध-
नेन अण् इञ् ण्य इत्याद्यनेकविधः । तत्रोक्तम् तस्यापत्यं तद्विशेषस्त-
क्षेण युतेन्दुमान् । कालस्तथा तेन रक्तं तस्य व्यूहोथ वेत्ति तत् ॥
अधीते वा देवतास्य सैबमादीन् यथायथम् । बोधयद्विविधानर्थास्तद्धितं
स्वादनेकधा ॥ इति । तत्र केचित्तद्धितप्रत्ययास्तत्तदर्थेषु सोदाहरणाः प्रद-
शर्यन्ते । यथा अपत्यार्थे अण् मरीचेरपत्यं मारीच: । वेत्तीत्यर्थे निमित्तं
वेत्ति नैमित्तः । अघीते इत्यर्थे छान्दसः वैयाकरणः त्रैविद्यश्च । संब-
न्ध्यर्थे वृक्षस्य संबन्धि वार्क्षम् । जातार्थे अमावास्यायां जात आमावास्यो
बालकः । गोशालायां जातं गोशालम् । अनुराधायां जातः अनुराधः ।
मत्राणो लुक् । अपत्यार्थे इं दक्षस्यापत्यं दाक्षिः वैयासकिः । प्य: गर्ग-
स्यापत्यं गार्ग्य: जामदग्यः । अपत्यसामान्ये आर्यनण् तदुत्तरं प्यश्च
कौञ्जायन्यः ब्रानायन्यः । अपत्यार्थे एयण् वैनतेयः आत्रेयः जाह्ववेयः
द्रौपदेयः । एरण् दासस्यापत्यं दासेरः दासेयोपि । काणाया अपत्यं काणेरः
काणेयोपि । चटकायाः पुमपत्यं चाटकैर: । आयनिण् तिकस्यापत्यं
तैकायनिः । तस्य ( सर्वनाम्नः ) अपव्यं तादायनिः तादोपि । अपत्यायें
ईयः स्वसुरपत्यं स्वस्त्रीयः । समूहार्थे अश्वीयम् । भवार्थे कवर्गीयः अङ्गु-
लीयः मित्रवर्गीयः । अपत्यार्थे व्यः भ्रातुरपव्यं भ्रातृव्यः । अपत्यार्थे
यः श्वशुरस्यापत्यं श्वशुर्यः । समूहार्थे धूम्या वन्या । अपत्यार्थे एयकण्
कुलस्यापत्यं कौलेयकः । ईनण् कुलीनः । डुरणू षाण्मातुरः । तद्रागयु-
क्तमित्यर्थे इकण् लाक्षया रक्तं लाक्षिकम् । समूहार्थे कैदारिकम् । तद्वेद
तदधीते वा इत्यर्थे नैयायिकः लौकायतिकः । भवार्थे आन्तर्देहिकम्
समानदैशिकम् । संज्ञार्थे शरदिका मुद्गभेदाः । रक्तमित्यर्थे अः नीलेन
रक्तो नीलः पटः । कः पीतेन रक्तः पीतकः पटः । समूहार्थे अकण्
पाणिनिविहितप्रत्ययापेक्षया भिन्ना एव
१ इण् आयनण् इत्यादयः केचित्प्रत्ययाः
जगदीशेन कल्पिता इति बोध्यम् ।