This page has not been fully proofread.

न्यायकोचः ।
 
३१५
 
:
 
बोधः । लक्षकसंबन्धस्यैव लक्ष्यतावच्छेदकत्वात् तेन रूपेणैव बोधात् ।
विशेषणस्यापि भूवादे क्रियान्वयादजहत्स्वार्थात्र लक्षणा ( त० प्र०
ख० ४ पृ० ४९ ) । [ग] यो बहुव्रीहिः स्वार्थस्यान्वयिनि स्वार्थ-
घटकस्याप्यर्थस्यान्वयबोधने समर्थः स तद्गुणसंविज्ञानः इति प्राचीना
आहुः । यथा लम्बकर्णमानय हारग्रीवं पश्येत्यादौ । अत्र हि बहुत्री-
हिर्लम्बकर्णसंबन्धिनः स्वग्रीवावृत्तिहारसंबन्धिनश्च स्वार्थस्यान्वयिनि कर्म-
त्वादौ स्वार्थघटकीभूतस्य तादृशकर्णहारादेरपि व्युत्पत्तिवैचित्र्येण अन्व-
यबोधने समर्थः इति ( श० प्र० लो० ४५ पृ० ५९ ) । [घ ]
परे तु यत्र विशेषणतया स्वार्थस्य विधेयेन्वयः स तद्गुणसंविज्ञानबहुव्रीहिः
इत्याहुः । यथा लम्बकर्णमानयेत्यादौ ( त० प्र० ख० ४ पृ० ४९ ) ।
एतत्कल्पे व्युत्पत्तिः तत्र बहुव्रीहौ गुणस्य गुणीभूतस्य विशेषणस्य
संविज्ञानम् विशेष्यपारतंत्र्येण बोधनम् यत्र इति वदन्ति । अत्र परेषां
मते लम्बकर्णादेः विशेष्यान्वयिनान्वयात् विशेषणतया विधेयान्वयः ।
विशेषणत्वं च विशेष्यान्वयिनान्वयित्वमेव । नवीनमतानुरोधेन लम्बकर्ण -
स्यापि विशेष्यत्वेनैवान्वयेनुभवबाधः । तस्मात् अत्रापि जहत्स्वार्थेव
लक्षणा ( त० प्र० ख० ४ पृ० ४९ ) । भवति च गुणीभूतस्य
कर्णादेरप्यानयने धर्मिपारतन्त्र्येण धर्मिद्वारा अन्वयबोधः इति ।
सद्धितः – ( प्रत्ययः ) [ क ] विभक्तिधात्वंशकृद्भ्योन्यः प्रत्ययः । यथा
मारीच इत्यादौ अणू दाक्षिरित्यादौ इञ् प्रत्ययस्तद्धितः । अत्र नामप्र-
क्कृतिकप्रत्ययत्वं न तद्धितस्य लक्षणम् । विभक्तौ क्यजादौ चातिव्याप्तेः ।
पचतितरामित्यादौ तरबादिष्वव्याप्तेश्च ( श० प्र० श्लो० १०८ पृ०
१७२ ) । अतो विभक्तिधात्वंशेत्याद्येव लक्षणं युक्तम् इति । अत्रेदम-
वधातव्यम् । वृक्षक इत्यादौ ह्रस्वाद्यर्थकः कादिरपि तद्धित एव इति । अन्ये
त्वेषमाहु: । वृक्षक इत्यादौ कादिस्तु न तद्धितः । अतः तदन्यत्वेनापि
लक्षणे प्रत्ययो विशेषणीयः इति । अत्र षष्ठ्यन्तानाम्नः साक्षात्परंपरासा-
धारणापत्यसामान्ये बोध्ये अण् इत्युत्सर्गः । तेन मरीचेरपत्यं मारीच इति
रूपं सिद्ध्यति ( श० प्र० श्लो० १०८ - १११ ) । [ख] तद्धिता-
धिकारविहितः प्रत्ययविशेष इति शाब्दिका बदन्ति । अत्रेदं बोध्यम् ।
 
-