This page has not been fully proofread.

३१४
 
न्यायकोशः ।
 
तदा- १ तत्कालः । यथा तदा विधिः कुण्डलनां विधोरपि ( नैष० )
इत्यादौ । २ यद्यर्थेनाक्षिप्तस्य विषयस्य खण्डनकरणम् । यथा धूमो यदि
वहिव्यभिचारी स्यात्तदा वहिजन्यो न स्यात् इत्यादौ ।
 

 

 
तदादयः - ( सर्वनामशब्दाः ) वक्तृबुद्धिविशेष विषयत्वावच्छेदकत्वोपलक्षि-
तधर्मावच्छिन्नस्तदादीनामर्थः ( वै० सा० द० ) । तदादयश्च तद् त्यदू
यद् एतद् इदम् अदस् इत्यादयः सर्वनामसंज्ञकाः ।
तदीयत्वम् - १ संबन्धान्तरं विनापि तत्संबद्धस्वभावत्वम् ( चि० १ ) ।
यथा देवदत्तस्वभावस्य आध्यात्मिकादिधर्मस्य देवदत्तीयत्वम् । २ तत्स्वा-
मिकत्वम् । यथा तदीयमातङ्गघटाविघट्टितैः ( माघ ० स० १ श्लो०
६४) इत्यादौ मातङ्गानां तदीयत्वम् । अत्र तदीयत्वं नाम रावणस्वामि-
कत्वम् । तत्संबन्धित्वमिति सार्वत्रिकोर्थः ।
 
तद्गुणसंविज्ञानः – ( बहुव्रीहिसमास: ) [ क ] यो बहुव्रीहिः स्वीयविग्रह-
वाक्यस्य विशेष्यविधया प्रत्याय्यो योर्थस्तद्विशेष्यकबोधकृद्भवति स बहु-
व्रीहिस्तद्गुणसंविज्ञानः इति नवीनाः प्राहुः । यथा घटस्वरूपः पदार्थः
कुटादिर्गणः इत्यादौ । नवीननैयायिकमते व्युत्पत्तिः तस्य स्वार्थगुणीभू-
तस्य सम्यक् विशेष्यविधया विज्ञानं यस्मात् इति ( श० प्र० श्लो० ४४
पृ० ५९ – ६० ) । अथवा तस्य समस्यमानपदार्थस्य गुणीभूतस्यापि
सम्यक् विशेष्यविधया ज्ञानं यस्मात् इति ( त० प्र० ख० ४ पृ०
४९ ) । घटस्वरूपः पदार्थ इत्यत्र घटः स्वरूपं यस्य इति विग्रहस्थले
स्वस्वरूपामिन्नघटसंबन्धित्वेन घटाभिन्नस्वस्वरूपसंबन्धित्वेन वा विग्रहवि-
शेष्यं कलशमेव विशेष्यविधया अनेन बहुव्रीहिणा बोध्यते इति । तथा
कुटादिर्गण इत्यत्र कुट आदिर्यस्म इति व्युत्पत्या कुटाभिन्नस्य स्वधर्मि-
कव्यवस्थाधर्मिणः संबन्धित्वेन धात्वन्तरमिव कुटमपि बोधयंस्तद्गुणसं-
विज्ञान एव बहुव्रीहिः ( श० प्र० श्लो० ४४ पृ० ५९ ) । [ख]
यत्र विशेषणस्यापि क्रियायां विशेष्यविधयान्वयः सः । यथा भूवादयो
धातवः चैत्रादीन्भोजय लम्बकर्णमानय इत्यादौ । अत्र क्रियावाचित्वेन
निमन्त्रितत्वेन लम्बकर्णावयविनोर्यः संबन्धस्तदवच्छिन्नत्वेन च अन्वय-