2023-02-20 00:55:05 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
३१३
( ऋ० सू० २।४।१ ) ॐ तथान्यत्प्रतिषेधात् ॐ ( ब्रह्म० सू०
३।२।३७ ) इत्यादौ । यथा वा यथा नदीनदाः सर्वे सागरे यान्ति
संस्थितिम् । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ( मनुः
६।९० ) इत्यादौ । ३ समुच्चयः । विधसो भुक्तशेषं तु यज्ञशेषं तथा-
मृतम् ( मनुः ३१२८५ ) ज्ञाननिष्ठा द्विजाः केचित्तपोनिष्ठास्तथा परे
( मनुः ३।१३४ ) इत्यादौ । ४ अभ्युपगमः । ५ पूर्वप्रतिषचनम् ।
६ निश्चयः । ७ सत्यम् ( वाच० ) ।
तथा च – १ उक्तस्य दृढीकरणार्थः । यथा निरिन्द्रिया ह्यमन्त्राश्च स्त्रियो-
नृतमिति स्थितिः । तथा च श्रुतयो बढ्यो निगीता निगमेष्वपि ॥ ( मनुः
९/१८) इत्यादौ । २ एवं सति इत्येतदर्थ: ( मध्य० मा० ) ।
यथा ॐ तथा चैकवाक्योपबन्धात् ॐ ( ब्र० सू० ३/४/२४ )
इत्यादौ । एवं सिद्धे सतीत्यर्थः ( तत्त्वप्रकाशिका ३।४।२४ ) ।
तथापि - यद्यपीत्यनेनाक्षिप्तार्थस्य समाधानार्थः । यथा यद्यपि का नो हानि:
परस्य द्राक्षां रासभश्चरति । असमञ्जसमिति मत्वा तथापि तरलायते
चेतः ॥ ( उद्भटः ) इत्यादौ ।
तथाहि ~ १ निदर्शनम् । २ प्रसिद्ध्यर्थः ( शब्दार्थचि० ) । ३ उक्तार्थ-
दृढीकरणम् । यथा ॐ छन्दोभिधानान्नेति चेन तथा चेतोर्पणनिगदा-
तथा हि दर्शनम् ॐ ( ऋ० सू० १२/१२/२५ ) इत्यादौ ।
-
तथैव - तद्वदेवेत्यर्थः । तत्समुच्चयावधारणम् ( शब्दार्थचि ० ) । यथा
अस्ति पुत्रो वशे यस्य भार्या भर्तुस्तथैव च ( चाणक्यः ) इत्यादौ ।
तदन्यबाधितार्थप्रसङ्गः - (तर्कः ) आत्माश्रय अन्योन्याश्रय चकक अन-
वस्था इत्युक्तचतुष्कान्यः प्रमाणबाधितार्थस्य प्रसङ्गः स द्विविधः
व्याप्तिग्राहकः विषयपरिशोधकश्च । विषयस्य व्यभिचारशङ्कानिवृत्तिद्वारा
निश्चायकत्वेन परिशोधकत्वं बोध्यम् । तत्रायो यथा धूमो यदि वहिव्य-
भिचारी स्यात्तदा वह्निजन्यो न स्यात् इति । द्वितीयस्तु पर्वतो यदि
निर्वह्निः स्यात् निर्धूमः स्यात् इत्यादिः (जग०) ( गौ० इ० १२।१२।४०) ।
४० न्या० को●