This page has not been fully proofread.

३१२
 
न्यायकोशः ।
 
रेण समानाधिकरणपदघटिततत्पुरुषः कर्मधारय इत्युच्यते । तद्भिन्नो व्यधि-
करणपदघटितः तत्पुरुष इत्युच्यते । यथा राजपुरुष इत्यादिः ( वाच० ) ।
उत्तरपदार्थप्रधानस्तत्पुरुषः इति केचिदाहुः । तन्न । अर्धपिप्पली इत्या-
दितत्पुरुषे अव्याप्तेः । सूपप्रति इत्याद्यव्ययीभावेतिव्याप्तेश्च (वाच० ) ।
यथोक्तं वाक्यपदीये समासस्तु चतुर्धेति प्रायोवादस्तथापरः । योयं
पूर्वपदार्थादिप्राधान्यविषयः स च ॥ इति । स च तत्पुरुषो द्वितीया-
दिभेदेन षड्डिधः । द्वितीयादिसुबर्थस्य कर्मत्वकर्तृत्वादेर्बोधभेदादेतस्य
तत्पुरुषस्य द्वितीयातृतीयादितत्पुरुषत्वेन षड्डेदाः । तथा हि प्रामगत
इत्यत्र द्वितीयातत्पुरुषः । चैत्रनीत इत्यत्र तृतीया तत्पुरुषः । ब्राह्मणदत्त
इत्यत्र चतुर्थीतत्पुरुषः । वृक्षपतित इत्यत्र पञ्चमीतत्पुरुषः । चैत्रधनम् मैत्र-
गतिरित्यत्र षष्ठीतत्पुरुषः । गृहपक इत्यत्र सप्तमीतत्पुरुषः इति । अत्रेदं
बोध्यम् । यदेतेषु धात्वर्थान्वय्येव द्वितीयादेरर्थः प्रायो घटकः । पीठं परितः
पुण्येन सुखम् शमाय विद्या दण्डाद्धट: गवां कृष्णा संपन्नक्षीरा तिलेषु
तैलम् इत्यादिविग्रहे तत्पुरुषस्यासाधुत्वात् ( श० प्र० श्लो० ३९ पृ०
४८) । वर्षसुखी लोष्टकणः कुण्डलहिरण्यम् घटान्यः कुबेरबलिः कर्म-
कुशल: इत्यादौ तु तत्तद्विशेषविधेर्द्वितीयादितत्पुरुषः इति ( श० प्र०
४९ ) । अत्र मतभेदाः । राजपुरुष इत्यादौ राजपदस्य राजसंबन्धिनि
लक्षणा । तेन पुरुषपदार्थस्याभेदेनान्वयः इति नैयायिका आहुः । अन्ये
तु लुप्तषष्ठ्येवान्वयबोधं जनयति । षष्ठीलोपमजानतस्तु पुरुषस्य तत्रान्व-
यप्रत्ययः शक्तिभ्रमात् राजपदलक्षणया वा इति स्वीचक्रुः । पूर्वकल्पे
राजपदस्य राजसंबन्धिन निरूढलक्षणा । एतन्मते तु षष्ठीलोपस्मरणासं-
भवस्थले राजपदे स्वारसिकी लक्षणा इति मेदः ( त० प्र० ख० ४ पृ०
४३ ) । वैयाकरणास्तु समासस्थशब्दसमुदाये विशिष्टार्थे शक्तिरेवेत्याहुः
( न्या० म० ४ पृ० ११ ) ।
 
तथा- -१ स प्रकारः । यथा कथमुक्त्वा तथा सत्यं सुप्तामुत्सृज्य मां गतः
( भा० व० ११ ) यथाकामो भवति तथाक्रतुर्भवति ( शत० ब्रा०
१४ ।७।२।७ ) इत्यादौ । २ साम्यम् । यथा ॐ तथा प्राणाः