This page has not been fully proofread.

३०९
 
तं केशपाशं प्रसमीक्ष्य कुर्यु: ( कुमार० सं० १९१४८ ) इत्यादौ ।
अत्र सेति प्रसिद्धार्थत्वान यच्छब्दापेक्षा । तदुक्तं काव्यप्रकाशे प्रकान्त-
प्रसिद्धानुभूतार्थविषयस्तच्छब्दो यच्छन्दोपादानं नापेक्षते इति ( कुमार ०
मल्लि० ५/७१ ) । यथा वा तत् सत्यम् स आत्मा तस्त्वमसि श्वेतकेतो
( छा० उ० ) इत्यादौ । तदुक्तम् ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः
स्मृतः ( गीता० १७/२३ ) इति । ३ अनुभूतम् । यथा ते
लोचने प्रतिदिशं विधुरे क्षिपन्ती (रत्नावली) इत्यत्र । ४ हेतुः । यथा
संतप्तानां त्वमसि शरणं तत् पयोद प्रियायाः ( मेघ० पूर्व० श्लो० ७ )
तदङ्गमग्र्यं मघवन् महाक्रतो: ( रघु० स० ३ लो० ४६ ) इत्यादौ । ५
तदा इत्येतदर्थः । यथा ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्
किं कर्मणि घोरे माम् ( गीता० अ० ३ श्लो० १ ) इत्यादौ ।
तत्वज्ञानम् – [ क ] यथार्थज्ञानम् । अत्रोक्तम् । तत्त्वज्ञानं तु खलु मिथ्या-
ज्ञानविपर्ययेण ब्याख्यातम् (वात्स्या० १११।२ ) । तच्च ईश्वरनोदनामि-
व्यक्ताद्धर्मादेव ( प्रशस्त ० भा० १/१/१९ पृ० ११ ) । ईश्वरनोदना
उपदेशः । वेद इति यावत् । तेनाभिव्यक्तात्प्रतिपादिताद्धर्मादेव भविष्यति
इत्यर्थः (किर० १।१।१ पृ० ११ ) । [ ख ] यथावस्थितपदार्थाधि-
गतिः । तच्च प्रमाणम् (न्या० वा० पृ० ४ ) । यथा सति घटादिवस्तुनि सत्
इति ज्ञानम् । असति च शशशृङ्गादौ असत् इति ज्ञानम् । [ग] निखिल-
लोकविमोक्षमुख्योपायं मननोपायमात्मनस्तत्वज्ञानमामनन्ति ( न्या० म०
१ पृ० १ ) । यथा आत्मा शरीरादिभ्यो भिन्नः इत्याकारकं ज्ञानम्
( त० प्र० १ पृ० ५) । यथा वा आत्मादेः खलु प्रमेयस्य तत्वज्ञा-
नान्निःश्रेयसाधिगम इत्यादौ ( वात्स्या० १ । १ । १ ) । इदं तत्त्वज्ञानं च
परमात्मविषयकम् निःश्रेयससाधनं चेति बोध्यम् । [घ ] इतरनिवृत्ति-
पूर्वको ब्रह्मात्मावगम इति मायावादिनो वदन्ति । [ङ ] भगवद्विषयक -
मपरोक्षज्ञानमिति द्वैतवादिनो वेदान्तिन आहुः ।
 
तत्त्वम् – [क] सतश्च सद्भावः असतश्चासद्भावः । सत् सत् इति गृह्यमाणं
यथाभूतमविपरीतम् तत्त्वं भवति । असञ्च असत् इति गृह्यमाणं यथाभू-