This page has not been fully proofread.

न्यायकोशः ।
 
रणत्वं ब्रह्मणो लक्षणम् इति ज्ञेयम् ( वेदा०प० वि० ) (बाच ० ) ।
यतो वा इमानि (तै० उ० २११११ ) इत्यादीनि वाक्यानि ब्रह्मणः
तटस्थलक्षणम् ( सर्व० सं० १० ४६७ शांक ० ) ।
 
वत्-

 
-१ [क] वक्तृबुद्धिविषयः तत्पदार्थः । यथा तौ गुरुर्गुरुपत्नी च
( रघु० स० १ श्लो० ५७ ) ते हिमालयमामध्य ( कुमार० स०
लो० ९४ ) इत्यादौ । [ ख ] केचित्तु परोक्षबुद्धिविषयः तच्छब्दार्थ
इति वदन्ति ( दि० ४ पृ० १७९ ) । इदमस्तु संनिकृष्टं समीपतरवर्ति
चैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षं विजानीयात् ॥ इत्य-
भियुक्तोक्तेः ( मनो० ) । [ग ] कचित् यत्पदप्रतिपाद्यतया वक्तृबुद्धि-
विषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नः । इयं च व्युत्पत्तिः प्रक्रम्य-
माणपरामर्शकत च्छन्दस्य द्रष्टव्या । यतः प्रकम्यमाणपरामर्शकतच्छब्देन
नियमतो यत्पदमपेक्ष्यते । यथा तमानय य इहास्ति इत्यादौ ( ग०
शक्ति० टी० पृ० ११५ ) । यथा वा स किंसखा साधु न शास्ति
योधिपम् ( किरा० स० १ श्लो० ५ ) इत्यादौ । [ घ ] शाब्दिकास्तु
यत्पद प्रतिपाद्यतया वक्तबुद्धिविषयो विधेयभूतः तत्पदार्थ इति वदन्ति ।
[ ङ ] कचित् स्वोच्चारकपुरुषप्रयुक्त पूर्वपदजन्योपस्थिति विषयतावच्छेद-
कस्वोपलक्षितस्वप्रयोजकबुद्धिविषयतावच्छेदकधर्मावच्छिन्नः । अत्रोपस्थि-
तिश्च स्वविशेष्यकवृत्तिज्ञानाधीना ग्राह्या । अतः पशुरस्ति तं पश्येत्यादी
पश्चादिपदोपस्थापितलोमादीनां तदादिशब्देन न परामर्शः । इयं व्युत्पत्तिः
प्रक्रान्त परामर्शकतच्छब्दस्य द्रष्टव्या । यतः तत्र यत्पदापेक्षा नियमो
नास्ति । यथा तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति
राजेन्दुरिन्दुः क्षीरनिधाविव ॥ ( रघु० स० १ श्लो० १२) इत्यादौ ।
अत्र वैवस्वतादि पदोपस्थाप्यस्यापि तच्छब्देन परामर्शान यत्पदापेक्षेति
ज्ञेयम् ( ग० शक्ति० पृ० ११५ ) । २ प्रसिद्धम् । प्रसिद्धत्वं चाने-
कज्ञानविषयत्वम् ( ग० शक्ति० टी० पृ० ११६ ) । यथा द्वयं गतं
संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती
कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥ ( कुमार० सं० ५/७१)