This page has not been fully proofread.

न्यायकोशः ।
 
३०७
 
तिनिर्वाहकः ज्ञापयतीत्यादौ ज्ञानाश्रयत्व निर्वाहकः नाशयतीत्यादौ नाश-
प्रतियोगित्वनिर्वाहकः व्यापारः प्रतीयते । अत्र सर्वत्र निर्वाहकत्वं च स्वरू-
पसंबन्ध विशेषः न तु जनकत्वम् । अतो न नाशयतीत्यादाबनुपपत्तिः ।
एवं च ण्यन्तसमुदायस्यापि धातुत्वेन प्यन्तधातुप्रतिपाद्यतावच्छेदकं फलं
कर्तृत्वमेव । निर्वाह्यस्यैव फलत्वात् । तदाश्रयतया स्वतन्त्रस्य कर्तुः कर्मता ।
तादृशफलविशेषणतया स्वतन्त्रकर्तृवृत्तित्वविवक्षायां पाचयत्योदनं सहायम्
इत्यादयः प्रयोगा अपि साधव एव । अत एव अजिग्रहत्तं जनको धनुस्तत्
इत्यादयो भट्टिप्रयोगाः । यदा तु पाकादि विशेषणतया सहायादिकर्तृत्वं विव-
क्षितम् तदा पाचयत्योदनं सहायेन इत्यादयः प्रयोगाः इति विवेकः ( ग०
न्यु० का० २ पृ० ४७) । क्वचित् ज्ञानानुकूलव्यापारोपि व्यर्थः ।
यथा कथकः कंसं घातयतीत्यादावभिनयादिरूपः । अत्र कंसकर्मक-
बधमाचष्टे इति बोधः ( ग० व्यु० का० २ पृ० ६२ ) । कचित्
स्वरूपं प्यर्थः । यथा चोरयति चिन्तयति इत्यादौ प्यर्थः स्वरूपमेव ।
अत्र चुरादिभ्यः स्वार्थिकस्य णे: स्वरूपमर्थः । तेन चोरयति चिन्तयती-
त्यादौ स्तेयादिस्वरूपस्यानुकूलक्कृतिमान् इत्यादिरर्थः ( श० प्र० श्लो०
१०७ पृ० १६९ ) ।
 
णी - ( धातुः ) १ नयनवदस्यार्थोनुसंधेयः । २ संमाननम् । ३ ज्ञानम्
४ निश्चयो वा ( वाच० ) ।
 
तटस्थः –वादिप्रतिवादिभावानापन्न उदासीनः । यथा तटस्थः शङ्कते इत्यादौ ।
तटस्थलक्षणम् – यावलक्ष्यकालमनवस्थायित्वे सति ययावर्तकं तत् । यथा
पृथिव्या गन्धवस्वं तटस्थं लक्षणं भवति । अत्र महाप्रलये परमाणुषु
उत्पत्तिकाले घटादिषु च गन्धाभावात्तथात्वं युज्यते । यथा वा मायावा-
दिमते ब्रह्मणो जगज्जन्मादिकारणत्वं लक्षणम् । अत्रेदं बोध्यम् । लक्षणं
द्विविधम् । स्वरूपलक्षणं तटस्थलक्षणं च । तत्राद्यम् सत्यं ज्ञानमनन्तं
ब्रह्म इत्यनेन ब्रह्मणः स्वरूपलक्षणमुच्यते । द्वितीयं तु जगज्जन्मादिका-