2023-02-20 00:55:01 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
ज्ञानजनकत्वम् । यथा श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
सम्यक् संकल्पज: कामो धर्ममूलमिदं स्मृतम् ॥ (याज्ञ० १७ ) इत्यादौ
श्रुत्यादेर्धर्मज्ञापकत्वम् इत्याहुः ।
ज्ञापनम् -[ क] ज्ञानानुकूलशब्दः । [ ख ] ज्ञानानुकूलव्यापारः । यथा
चैत्रः स्ववृत्तान्तं मैत्रं ज्ञापयतीत्यादौ । [ग] शाब्दिकास्तु ज्ञानानुकूल-
व्यापारानुकूलव्यापारः इत्याहुः ।
ज्ञाप्यत्वम् - १ जन्यज्ञान विषयत्वम् । यथा घूमाहिमानित्यादौ वड्यन्वयि
ज्ञाप्यत्वं पञ्चम्यर्थः ( ग० अव० हेतु० ) । अयमर्थो नवीनमतानुसा
रेण । प्राचीनमते तु ज्ञापकत्वमेव पञ्चम्यर्थः इति बोध्यम् । २ ज्ञानज-
न्यत्वमिति केचिद्वदन्ति ।
०
ज्ञेयत्वम् –[ क ] ज्ञान विषयत्वम् (मु० १ साधर्म्य० पृ० ४५ ) । यथा
भूतलं घटवत् इति चाक्षुषप्रत्यक्षे घटस्य ज्ञेयत्वम् । यथा वा ज्ञेयं यत्त-
प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ( गीता १३।१२ ) ज्ञानं ज्ञेयं ज्ञान-
गम्यं हृदि सर्वस्य विष्ठितम् ( गीता० १३ । १७ ) इत्यादी । [ ख ]
भगवज्ज्ञानविषयत्वम् ( न्या० म० २ पृ० १९ ) ( त० दी० २
पृ० २३ ) । यथा घटपटादे: सर्वस्य जगतो ज्ञेयत्वम् । तच केवळा-
न्वयि ( मु० १ साधर्म्य० पृ० ४५) । यथा वा इदं वाच्यं ज्ञेयत्वा-
दिव्यादौ (मु० २) ।
ज्येष्ठत्वम् – १ कालकृतः परत्वविशेषः ( सि० च० पृ० १८ ) । यथा
रामस्य लक्ष्मणमपेक्ष्य ज्येष्ठत्वम् । २ बहुतरसूर्यस्पन्दान्तरितजन्यत्वम् इति
नव्या आहुः ( दि० गु० पृ० २०९ ) । कालकृतो विप्रकर्ष इत्यर्थः ।
नव्यमते परत्वस्य गुणान्तरत्वं नास्ति इति भावः । ३ स्मार्तास्तु
उत्कर्षः श्रेष्ठत्वं वा । यथा विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः
बैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ ( मनुः २/१५५ )
इत्यादौ ज्येष्ठत्वम् इत्याहुः ।
ज्योतिर्मत्रः - तारव्योमाग्निमनुयुग्ज्योतिर्मय उदाहृतः ( सर्व० सं० पू०
३७० पात० ) ।
३९ म्या० को०