2023-02-20 00:55:01 by ambuda-bot
This page has not been fully proofread.
३०४
न्यायकोशः ।
लौकिकं प्रत्यक्षं जन्यते। तथा च सुरभि चन्दनमित्यत्र सौरभांशे अलौ-
किकत्वम् चन्दनांशे लौकिकत्वम् इति ( वाच० ) । अत्र च सुरभि
त्वज्ञानं ( स्मरणम् ) तु सुरभि चन्दनम् इति चाक्षुषोपनीतभानं जनय
तीति विज्ञेयम् । यत्र सौरभज्ञानलक्षणया चाक्षुषसामग्र्या च सुरमि
चन्दनखण्डम् इति सौरभांशे अलौकिकम् चन्दनखण्डांशे लौकिकं चाक्षुषं
जायते तत्र सौरभज्ञाने सौरभप्रत्यक्षे जननीये सौरभस्मरणमेव प्रत्यासत्तिः ।
सौरभांशे चक्षुःसंनिकर्षासंभवात् ( सि० च० १ पृ० २३ ) । सौर-
भस्य चक्षुरयोग्यत्वेन चक्षुःसंयुक्तचन्दनसमवायस्य तत्र सत्त्वेप्यप्रयोज -
कत्वात् इति ( त० कौ० ११० ९ ) । एवम् रज्जुसर्पादिबोधेपि
सर्पत्वाद्युपस्थितिर्ज्ञानलक्षणसंनिकर्षादेव भवति । यतः सर्पत्वादौ चक्षुः-
संनिकर्षाभावादिति ( त० व० ) । एवं यत्र घूमत्वेन घूलीपटलं ज्ञातं
तत्र घूलीपटलस्यानुष्यवसाये भानं ज्ञानलक्षणया भवति । अयं च ज्ञान-
लक्षण: संनिकर्षः षडिन्द्रियसहकारी इति संप्रदायविद आहुः । मनस
एव सहकारी इति शूलपाणिमिश्रा अमन्यन्त ( त० कौ० १ पृ० ९) ।
ज्ञानाध्यासः – प्रमाणदोषसंस्कारजन्मान्यस्य परात्मता । तद्धीश्चाभ्यास
इति हि ह्वयमिष्टं मनीषिभिः ( सर्व० सं० पृ० ४२० शां० ) ।
ज्ञानेन्द्रियम् – ( इन्द्रियम् ) ज्ञानजनकमिन्द्रियम् । ज्ञानेन्द्रियाणि षट् ।
श्रोत्रम् त्वक् चक्षुः रसनम् घ्राणम् मनश्चेति । एतानि मनोव्यतिरिक्तानि
बहिरिन्द्रियाणि । मनस्तु अन्तरिन्द्रियम् । दिग्वातार्कप्रचेतोश्विनो बहि-
रिन्द्रियाणां देवता ज्ञेयाः । तद्विषयाश्च शब्दस्पर्शरूपरसगन्धाः इति ।
अन्तरिन्द्रियस्य मनसः विषयस्तु सुखादिकम् चन्द्रमा देवता इति
ज्ञेयम् । अत्रेदमवधेयम् नैयायिकमते ज्ञानेन्द्रियातिरिक्तानामिन्द्रियत्वं
नास्त्येव इति । अधिकं तु इन्द्रियशब्दव्याख्यानावसरे संपादितमिति
नात्र तनिरूप्यते ।
शापकलम् – १ जनकज्ञानविषयत्वम् । यथा पर्वतो वहिमान् घूमादित्यादौ
घूमस्य ज्ञापकत्वम् ( ग० अव० हेतु० ) । अत्र ज्ञापकत्वं च पराम-
शयप्रकारत्वविशेष्यत्वैतदन्यतरवस्त्वमिति केचिद्वदन्ति । २ धर्मशास्त