This page has not been fully proofread.

न्यायकोशः ।
 
मात्रद्योतकं निर्विकल्पकम् सविकल्पकं च । तत्र सविकल्पकं संज्ञा-
दिद्योतकत्वादनेकधा । तथा हि संकल्पसंशयभ्रान्तिस्मृतिसादृश्यनिश्चयाः ।
ऊहोनध्यवसायश्च तथान्येनुभवा अपि ॥ इत्यादि ( वाच० ) । वैशेषि
कमतेपि ज्ञानं द्विविधम् । विद्या अविद्या च । तत्र विद्या चतुर्विधा
प्रत्यक्ष
लैङ्गिकस्मृत्यर्षलक्षणा । अविद्यापि चतुर्विधा संशयविपर्यय-
स्वमानव्यवसायलक्षणा इति ( वै० उ० ८।१।२ ) । ७ ध्यानोपास-
नादिशब्दवाच्यं वेदनं ज्ञानम् ( सर्व० सं० पृ० १२१ रामानु० ) ।
 
ज्ञानलक्षणः – ( संनिकर्षः ) स्वविषयविषयकप्रत्यक्षजनको ज्ञानविशेष:
( स्मरणम् ) । यथा सुरभित्वज्ञानम् ( भा० प० १ लो० ६६ )
 
( मु० १ पृ० १३१ ) ( त० व० ) । अत्रेदमवधेयम् । अयं
संनिकर्षः स्पृत्यात्मकः अलौकिक प्रत्यक्षे कारणं भवति । ज्ञानलक्षण-
संनिकर्षेण तद्विषयीभूततत्तत्पदार्थानां प्रत्यक्षं मनसा जन्यते । कथम-
न्यथा ( ज्ञानलक्षणसंनिकर्षास्वीकारे ) कविकाव्यमूलभूततत्तत्पदार्थसं-
सर्गज्ञानम् ( त० कौ० १ पृ० ९ ) । किंच ज्ञानलक्षणसंनिकर्षा-
स्वीकारे यत्र सौरभत्वजात्युपस्थित्यनन्तरं सुरभिर्गन्धः इतिवत् सुरमि
चन्दनम् इल्याकारकं सौरभम्व प्रकारेण चन्दनस्य भ्रमात्मकं चाक्षुषम्
तत्र सौरभत्वजातेर्भानं न स्यात् । नहि तत्र सुर मिगन्धस्य भानसंभवः ।
येन सुरभिगन्धभासनेन सामान्यलक्षणायास्त वर्मप्रकारकतदाश्रय प्रत्यक्षं
प्रत्येव हेतुतया सौरभत्वप्रत्यासत्तेः कार्यतावच्छेदकतयैव सौरभत्वजा-
तेर्भानं भविष्यति इति संभावनीयम् ( जग० ) ( वाच० ) । तादृशं
स्मरणं च यद्विषयकम् तद्विषयकसाक्षात्कारजनिका प्रत्यासत्तिः । सुरभि
चन्दनम् इति चाक्षुषे सौरभस्य सौरभत्वस्य वा भानं ज्ञान प्रत्यासस्यैव
( म० प्र० १ पृ० २२) । अयं च यद्विषयकं ज्ञानं जननीयम्
तस्यैव संनिकर्षः । अत एव सुरभि चन्दनमित्यादौ सौरभत्वादेरपि
भानमिति ( दीधि ० ) । ज्ञानलक्षणसंनिकर्षेण ( स्मरणेन ) पूर्वज्ञातव-
स्तुनः अलौकिक प्रत्यक्षं जन्यते । यथा सुरभि चन्दनम् इति चाक्षुषे
चन्दनस्य चक्षुर्ग्राह्यत्वेपि सौरभस्य तदप्रामस्वात् पूर्वज्ञातस्य सौरभस्या-