This page has not been fully proofread.

३०२
 
न्यायकोशः ।
 
घटः इति प्रतीतिविषयो ज्ञाततेति नैयायिकाः प्राहुः । भट्टास्तु घटादौ
समवायेन वर्तमाना ज्ञानजन्या ज्ञाततेत्याहुः । अत्रेदं बोध्यम् । भट्टमते
ज्ञातो घटः इति प्रतीर्ति प्रति घटज्ञानं निमित्तकारणम् । घटादिकं समवा-
यिकारणम् । असमवायिकारणं तु नापेक्षितम् । भावकार्ये सासमवायिका-
रणम् इति नियमस्य तु भट्टैरनङ्गीकारात् इति ( त० प्र० ख० ४
पृ० १२९ ) । यथा ज्ञातसारोपि खल्वेकः संदिग्धे कार्यवस्तुनि (माघ ०
स० २ श्लो० १२ ) इत्यादौ सारस्य तत्त्वार्थस्य ज्ञातता । २ भट्टमी-
मांसकास्तु ज्ञातः इति प्रतीतिसिद्धो ज्ञानजन्यो विषयसमवेतः प्राकव्या-
परनामा अतिरिक्तपदार्थविशेष: ( मू० म० १ प्रामा० पृ० १२६ ) ।
अथवा सविषयको ज्ञानजन्योतिरिक्तपदार्थः इत्याहुः ( नील० प्रामा०
पृ० ३५) । ज्ञातताया ज्ञानजन्यत्वं चेत्थम् । घटादिविषये ज्ञाने जाते
मया ज्ञातोयं घटः इति घटस्य ज्ञातत्वं प्रतिसंघीयते । तेन ज्ञाने जाते
सति ज्ञातता नाम कश्चिद्धर्मो जातः इत्यनुमीयते । सा च ज्ञातता
ज्ञानात्पूर्वमजातत्वात् ज्ञाने जाते च जातत्वादन्वयव्यतिरेकाभ्यां ज्ञानेन
जन्यते इत्यवधार्यते इति ( त० भा० प्रामा० पृ० २२ ) । ३ या
शक्यमनुभावयति सा शक्तिर्ज्ञाततेति केचिदाहुः ( चि० ) ।
 

 
ज्ञानम् – १ बुद्धिवदस्यार्थोनुसंधेयः ( गौ० ११ १२ ११५ ) (३० ८।१।
१ ) । २ बुद्धितत्त्वस्य महत्तत्त्वापरपर्यायस्य परिणामविशेषो ज्ञानम्
इति सांख्या आहुः ( गौ० वृ० १११/१५ ) । अत्रायमर्थः । अर्था-
कारेण परिणताया बुद्धिवृत्तेश्चेतने प्रतिबिम्बनाद्विषयप्रकाशरूपं ज्ञानम् ।
तत्र पौरुषेयबोधे वृत्तिः करणम् वृत्तिरूपज्ञाने चेन्द्रियादि करणम्
इति भेदः । ३ गुणपुरुषान्यता ख्यातिरूपोभ्यवसायो ज्ञानम् इति
( वाच० ) । ४ बुद्धिवृत्तिनिरोधरूपो योगो ज्ञानम् इति योगशास्त्रज्ञा
आहुः । ५ केचिद्वौद्धास्तु बाह्यार्थाभावेन बुद्धेरेव तत्तदर्थाकारतयावभासो
ज्ञानम् इत्यङ्गीचक्रुः । ६ मनोवृत्तिश्चैतन्यविशेषो वा ज्ञानम् इति
मायावादिनः । मायावादिमते ज्ञानं द्विविधम् । वृत्तिरूपम् तदवच्छिन्न-
वृत्तिप्रतिबिम्बितचैतन्यरूपं चेति । तत्र प्रत्यक्षज्ञानमपि द्विविधम् वस्तु-