2023-02-20 00:55:00 by ambuda-bot
This page has not been fully proofread.
न्यायकोचः ।
( ग० व्यु० का० २ ख० १ पृ० ५१ ) । एवं च घटनिष्ठविषय-
तानिरूपितविषयिताश्रयीभूतं यज्ज्ञानं तदाश्रयश्चैत्रः इति शाब्दबोधः ।
घटादिनिष्ठं ज्ञानादिकर्मत्वं च ज्ञानादिविषयत्वमेव । विषयत्वादौ च
द्वितीयाया लक्षणैव न तु शक्तिः इति सांप्रदायिका आहुः । चैत्रेण
घटो ज्ञायते इत्यत्र कर्माख्यातेन घटादौ धात्वर्थज्ञाननिरूपितं विषयत्वं
बोध्यते ( ग० व्यु० का० २ पृ० ५१ ) । तथा च चैत्रेणेति
तृतीयाया अर्थः चैत्रान्वितं समवेतत्वम् । तस्य च धात्वर्थे ज्ञानेन्वयः ।
तस्य ज्ञानस्य चात्मनेपदार्थविषयत्वेन्वयः । तस्य तादृशविषयत्वस्य
घटेन्वयः । एवं च चैत्रसमवेतज्ञानविषयो घटः इति शाब्दबोधः ।
[ ख ] शाब्दिकाश्च पतञ्जलिप्रभृतयः ज्ञानानुकूलव्यापारः ज्ञाधात्वर्थः ।
( ल० म० धात्वर्थ ० पृ० ६ ) ( वै० सा० ८० धात्व० पृ० ६३ ) ।
यथा देवदत्तो घटं जानातीत्यादौ जानाव्यर्थः इत्याहुः ( वै० सा०
धात्व० पृ० ४६ ) । अत्र विषयतया ज्ञानं फलम् । आत्ममनः संयोगो
व्यापारः । अत एव मनो जानाति इत्युपपद्यते ( ल० म० धात्वर्थ ०
पृ० ६ ) । आत्ममनः संयोग इत्यत्रात्मान्तःकरणम् । मनोपि तद्वृत्ति-
विशेषरूपम् ( ल० म० धात्वर्थ० पृ० ६ ) । अत्र देवदत्तामिन्ना-
श्रयको ज्ञानाद्यनुकूलो वर्तमानो व्यापारः इति बोध: ( वै० सा०
धात्व० १० ४६ ) । [ग ] अन्ये तु शाब्दिकाः विषयावच्छिन्नावर-
णभङ्गादिफलानुकूलव्यापारः । यथा घटं जानातीत्यादौ धात्वर्थः इत्या-
शशङ्किरे (३० सा० धात्वर्थ० पृ० ६२ ) । अतीतानागतादिपरोक्ष-
स्थलेपि ज्ञानजन्यस्य तादृशफलस्यावश्यकत्वम् । अत एव ज्ञादिधातोः
सकर्मकत्वमुपपद्यते । ज्ञानस्यैव फलत्वाङ्गीकारे तदनाश्रयत्वाद्धटादेः कर्म-
त्वानुपपत्तिः इति भावः ( वै० सा० धात्वर्थ ० पृ० ६२ ) । स च
व्यापारोर्थप्रकाशरूपः । अत्रेदं ज्ञेयम् । ज्ञाक्कआदिधातुषु सकर्मकत्व-
व्यवहारो भाक्त इति नैयायिकसिद्धान्तः ( वै० सा० धात्व० पृ० ६० ) ।
शावता - १ ज्ञानविषयता ( त० मा० प्रमाण० पू० २२ ) । अत्रेदम-
वधेयम् । ज्ञातता ज्ञानविषयत्वम् । तच खरूपसंबन्धरूपमेव । यया ज्ञातो