2023-02-20 00:55:00 by ambuda-bot
This page has not been fully proofread.
३००
न्यायकोशः ।
जीवन्मुक्ति : – ( निःश्रेयसम् ) [ क ] योगजादृष्टजन्यतत्त्वसाक्षात्कारः
( न्या० सि० दी० पृ० २९ ) । इयं चापरनिःश्रेयसमित्युच्यते ।
जीवन्मुक्तेरुपायास्तु श्रवणमनननिदिध्यासनतत्त्वज्ञानानि योगाभ्यासा-
दयश्च । तन्त्रोक्तकुलाचारा अपि सदुपायाः । यथोक्तम् जीवन्मुक्ता-
उपायस्तु कुलमार्गो हि नापरः इति ( तन्त्रम् ) ( वाच० ) । यथा
शुकजनकादीनां जीवन्मुक्तिः । अत्र मायावादिन आहुः । जीवन्मुक्तो
नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञानबाधनद्वारा स्वस्वरूपाखण्डब्रह्मणि
साक्षात्कृते अज्ञानकार्यसंचितकर्मसंशयविपर्ययादी नामपि बाधितत्वादखिल-
बन्धरहितो ब्रह्मनिष्ठः इति ( वेदान्तसा० ) । [ख] अवधारितात्मत-
त्वस्य नैरन्तर्याभ्यासापहृत मिथ्याज्ञानस्य प्रारब्धं कर्मोपभुजानस्य जीवतः
सत एव जायमानश्वरमदुःखध्वंस: ( गौ० दृ० १।१।१ ) ।
जैमिनि: सामवेदाध्ययनेन वेदव्यासशिष्य ऋषिविशेषः । अत्र श्रूयते
साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् ( भाग ० स्क०
अ० ६ श्लो० १८ ) इति । स च जैमिनि: अथातो धर्मजिज्ञासा ( जै०
सू० १।१।१ ) इत्यारभ्य अन्वाहार्ये च दर्शनात् ( जै० सू० १२
४।४६ ) एतत्पर्यन्तं द्वादशाध्यायात्मकं सूत्रबद्धं कर्मकाण्डाख्यं धर्ममी-
मांसादर्शनं प्रणिनाय ।
१२
इतिः - १ ज्ञानम् । २ मारणम् । ३ तोषणम् । ४ स्तुतिः । ५ तीक्ष्णी-
करणम् ( वाच ० )।
ज्ञा--(धातुः ) [ क ]
ज्ञानम् । यथा चैत्रो घटं जानाति चैत्रेण घटो
ज्ञायते इत्यादौ धात्वर्थ: (वै० सा० धात्व० ५० ५७ ) । चैत्रो वटं
जानातीत्यत्र प्राचीनमते द्वितीयार्थो विषयत्वम् । तत्र प्रकृत्यर्थस्य घटादेः
आघेयतासंबन्धेनान्वयः । तस्य द्वितीयार्थस्य विषयत्वस्य धात्वर्ये ज्ञाने
निरूपकत्व संबन्धेनान्वयः । नवीनमते तु विषयित्वं द्वितीयार्थः । अय-
माशयः । वृत्त्यनियामक संबन्धस्याभावप्रतियोगितानवच्छेदकतया घटं जा-
नाति पटं न इत्यादौ अन्वयस्य अनुपपत्तिः । अतोयमर्थः स्वीकार्यः
इति । तस्य च धात्वर्थज्ञान आश्रयता ( स्वरूपाख्य) संबन्धेनान्वयः