2023-02-20 00:55:00 by ambuda-bot
This page has not been fully proofread.
न्यायकोचः ।
२९९
मन्त्रार्णसंख्यया तद्धि जीवनं संप्रचक्षते ॥ ( सर्व० सं० ० ३६९
पातञ्ज० ) ।
जीवनयोनियत्न:- ( प्रयत्नः ) [ क ] साहजिकप्राणसंचारविषयकयत्नः
( दि० गु० ) । स च प्राणसंचार कारणम् यावज्जीवमनुवर्तते । स चाती-
न्द्रियः शरीरे प्राणसंचारानुमेयश्च इति बोध्यम् ( वै० उ० ५/२/१६ )
( मा० प० श्लो० १५३ ) । तथाहि शरीरे अधिकश्वासादिः
प्राणसंचारो यत्नसाध्यतया दृष्टः । इत्थं च प्राणसंचारस्य सर्वस्य
सुषुप्त्यवस्थायां जायमानस्यापि यत्नसाध्यत्वानुमानात् प्रत्यक्षप्रयत्नबाधा-
चातीन्द्रिययत्नसिद्धिः । स च प्राणसंचार हेतुत्वेनानुमीयमान एव जीव-
नयोनियनः इति ज्ञेयम् (मु० गु० पृ० २३१ ) । अयं भावः । दृष्टो
हि धावतः पुरुषस्य प्रत्यक्षप्रयत्नोत्कर्षेणाधिकश्वासादिरूपप्राणसंचारो-
त्कर्षः । इत्थं च एकत्र यत्नसाध्यत्वस्यानुभविकत्वेन तद्दृष्टान्तेन प्राणसं-
चारत्वावच्छेदेन सर्वत्र भोक्तयत्नजन्यत्वानुमानम् इति ( दि० गु० पृ०
२३२ ) । एतदुक्तं भवति । धावतः प्रयत्नोत्कर्षेण श्वासक्रियोत्कर्षदर्शनात्
श्वासक्रियात्वावच्छिन्ने एव यत्नजन्यत्वनिश्चयः । यद्विशेषयोः कार्यकार-
णभाष: असति बाधके तत्सामान्ययोरपि इति न्यायाज्जीवनयोनियत्नसिद्धिः
( त० प्र० ख० ४ पृ० ९७ ) । नव्यनैयायिकास्तु जीवनयोनियत्नं
नाङ्गीचक्रुः । अयं भावः । प्राणक्रियाया अदृष्टविशेष प्रयोज्यात्ममनोयोगरू-
पाज्जीवनात् तत्प्रयोजकादृष्टाद्वा संभवात् उक्तानुमानस्याप्रयोजकत्वम् ।
अन्यथा एकत्र यत्ले ज्ञानजन्यत्वदृष्टान्तेन जन्ययत्नत्वावच्छेदेन ज्ञानज-
न्यत्वकल्पनापत्या सुषुप्तौ ज्ञानादेरप्यतीन्द्रियस्य कल्पनापत्तिः । एवं
च जीवनयोनियत्नस्वीकारे मानाभावः इति ( दि० गु० पृ० २३२ ) ।
[ ख ] जीवनादृष्टजन्यो गुणः ( सि० च० पृ० ३५ ) [ [ग] ]
श्वासप्रश्वास हेतुर्यत्नः ( त० कौ० गु० पृ० १९ ) ( सि० च०
पृ० ३५ ) । सुषुप्तिदशायामपि आत्मनो येन प्रयत्नेन प्राणापानयोरू-
र्ध्वाधोगती भवतः स प्रयत्नो जीवनयोनिसंज्ञको भवतीत्यर्थः ( वै० उ०
३।२।४ ) ।