2023-02-20 00:55:00 by ambuda-bot
This page has not been fully proofread.
२९८
न्यायकोचः ।
।
कल्पितस्तु सहस्रषा । तस्यापि शतशो भागो जीवः सूक्ष्म उदाहृतः ॥
इति ( वाच० ) । मध्यमपरिमाणरूपो जीव इति माध्यमिकबौद्धाः ।
तत्रापि देहपरिमाणरूपो जीव इत्यार्हताः । अत्र जीवस्य विभुत्वं मन्य-
माना नैयायिकाः समुत्तिष्ठन्ते । तथा हि जीवस्य परमाणुरूपत्वाङ्गीकारे
जीवगतज्ञानादिप्रत्यक्षानुपपत्तिः सर्वशरीरव्यापिसुखाद्यनुपलब्धिप्रसङ्गध ।
योगिनो नानाशरीरावच्छेदेन सुखाद्यनुपलब्धिप्रसङ्गव । मध्यमपरिमाण-
रूपाङ्गीकारे च अनित्यत्वापत्त्या कृतहानाकृताभ्यागमयोः प्रसङ्ग
इति जीवस्य विमुत्वमवश्यमङ्गीकर्तव्यमिति न्यायप्रन्थतात्पर्यम् ( सि०
च० १ पृ० १२ ) ( वाक्य० १ पृ० ५ ) ( नील० १ पृ० ११) ।
जीव एक एव न तु नाना इति मायावादिवेदान्त्येकदेशिन आहुः ।
एतन्मते अविद्या प्रतिबिम्बो जीव इति मन्तव्यम् । अनेकजीववादिमा-
यावादिमते तु अन्तःकरणप्रतिबिम्बः स च जाग्रत्स्व प्रसुषुप्तिरूपावस्था-
त्रयवान् इति विवेकः ( वाच० ) । वैशेषिकसिद्धान्ते जीवात्मनि चतुर्दश
गुणा वर्तन्ते । ते च संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः बुद्धिः
सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावनाख्यसंस्कारश्चेति
( त० मा० प्रमे० पृ० ३१ ) ( भा० प० श्लो० ३२-३३ )।
तत्र बुद्धिसुखदुःखेच्छाद्वेषप्रयत्ना द्विक्षणावस्थायिनस्तृतीयक्षणे नश्यन्ति ।
अत्रायं नियमः योग्यविभुविशेषगुणानां स्वद्वितीयक्षणोत्पन्नगुणनाश्यत्वम्
इति ( त० कौ० गु० पृ० १९ ) ( मु० ) । तत्र संख्यादिपञ्चकं
तु आत्मनो द्रव्यत्वेन सिद्धम् । आत्मैकत्वपरिमाणे बुद्ध्यादयः प्रयत्ना-
न्ताव प्रत्यक्षसिद्धाः । तत्रात्मैकत्वपरिमाणे न प्रत्यक्षयोग्ये इति टीकाकृत
आहुः ( प० मा० ) ( मु० ) । २ जीविकाख्या वृत्तिर्जीव इति
काव्यज्ञा वदन्ति ( वाच० ) ।
जीवत्वम् —–—संसारित्वम् ( सर्व० सं० पृ० २०६ रसेश्व० ) ।
जीवनम् — १ सदेहस्यात्मनो मनसा संयोगो विपश्यमानकर्माशयसहितः
( वात्स्या० ३।२।२७ ) । यथा शतं जीवन्तु शरदः ( ऋ० १० ।
१८।१ ) इत्यादौ संशयं पुनरारुह्य यदि जीवति पश्यति ( हितो० )
इत्यादौ च ( वाच० ) । २ प्रणवान्तरितात्कृत्वा मन्नवर्णाक्षपेत्सुषीः ।