This page has not been fully proofread.

न्यायकोशः ।
 
२९७
 
ब्रह्मविद्रह्मैव इति श्रुतिश्च निर्दुःखत्वादिनेश्वरसाम्यं जीवस्याभिधत्ते न
तु तदभेदम् इत्यादि ( वै० वि० ३/२/२१ ) । स च जीवः सुख-
दुःखवैचित्र्याभानाभूत एव । तद्यथा कश्चिद्रङ्कः कश्चिदाढ्यः कश्चिद
न्यविधः पुनः । अनयैवात्मनानात्वं सिद्धयत्यत्र व्यवस्थया ॥ ( त० व०
आ० लो० ९० पृ० १५३ ) ( वै० ३१२ । २० ) । तथा स जीवः
प्रतिशरीरं मिन्नः । अत्र भोगवत्त्वे सति अनवच्छिन्नभोगवद्भिन्नो मिन्न-
शब्दार्थः । द्वितीयार्थोवच्छेद्यत्वं व्युत्पत्तिवैचित्र्यायोगे अनवच्छेद्यत्वे
चान्वेति । शरीरपदं तु प्रयोज्यतासंबन्धेन तत्तन्मनोविशिष्टपरम् । तेन
एकैकात्मनो जन्मभेदेनावस्थाभेदेन कायव्यूहस्थले च नानाशरीरसत्त्वेपि
न क्षतिः । एकस्यैव मनसः पूर्वपूर्वजन्मार्जितधर्माधर्मद्वारा सकलशरीर-
प्रयोजकत्वात् । तथा च एकैकात्मा यत्किंचिन्मनोविशिष्टशरीराव-
च्छिन्नभोगवत्त्वे सति तादृशशरीरानवच्छिन्नभोगवद्भिन्नः इति वा-
क्यार्थः ( वाक्य० १ पृ० ५ - ६ ) । अथवा एतच्छरीरावच्छिन्न-
भोगवान् समानकालिकयोगजधर्माद्य जन्यशरीरावच्छिन्नभोगवद्भिन्नः इति
( नील० १ पृ० ११) । तथा स जीवात्मा सर्वत्र सर्वशरीरावयवेषु
कार्यस्य ज्ञानादेः उपलम्भाद्विभुः । जीवस्याणुत्वाङ्गीकारे कायव्यूहस्थले
योगिनः सुखादिसाक्षात्कारानुपपत्तिरतो विभुत्वमङ्गीकर्तव्यम् (नील०
१ पृ० ११ ) । विभुत्वान्नित्योसौ व्योमवत् ( त० भा० प्र०
पृ० २५ ) ( वै० ३।२।५ ) । जीवस्यानित्यत्वाङ्गीकारे कृतस्य
कर्मणो हानेः अकृतस्याम्यागमस्य च प्रसङ्गः । अतस्तस्य नित्यत्वमङ्गी-
कर्तव्यम् ( त० दी० १ पृ० ११ ) । तथाच तर्कसंग्रहादावुक्तम्
जीवः सुखदुःखवैचित्र्यानानाभूत एव प्रतिशरीरं भिन्नः विभुर्नित्यश्चेति
( त० सं० ) ( त० भा० पृ० २४ ) ( सि० च० १ पृ० १२ )
( बै० ३१२१५ ) ( प्र० प्र० प्र० पृ० १० ) । जीवो विभुः इति
सांख्यनैयायिकवैशेषिकपातञ्जलमायावादिवेदान्तिन आहुः । अणुपरि-
माणो नानाविषश्च जीव इति रामानुजीयमाध्वादयो वैष्णवाः । अत्र
श्रुतिः बालाप्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः
स चानन्त्याय कल्पते ॥ इति । शङ्खस्मृतिरपि बालाप्रशतशो मागः
 
३८ न्या० को●