This page has not been fully proofread.

१९६
 
"चन्द्रेणैकादश स्वताः । इन्द्रियाणामधिष्ठातृदेवाले साखिका मताः ॥
इति पदार्थादर्शे (बाच ० ) । [ग ] बन्धमोक्षयोग्यः ( सि० च० १
पृ० १२ ) । [ष ] शरीरसापेक्षज्ञानवान् ( प्र० प्र० प्रमेष० पृ०
१०) । [ङ ] अनिव्यज्ञानवान् ( त० कौ० १ पृ० ३ ) । यथा
इन्ताहमिमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याक-
स्थाणि (छा० ६।३।२ इत्यादौ ) । [च ] बादरायणाचार्यास्तु एवं पत्रविधं
लिङ्गं त्रिशत् षोडशविस्तृतम् । एष चेतनया युक्तो जीव इत्यमिघीयते ॥
( भाग ० ) इत्याहुः । [ छ ] मायावादिमते त्रयो हि जीवस्योपाधयः ।
तत्र सुषुतौ बुद्ध्यादिसंस्कारवासितमज्ञानमात्रम् स्वमे जाग्रद्वासनामयं
लिङ्गशरीरम् जामदवस्थायां सूक्ष्मशरीरसंसृष्टं स्थूलशरीरम् उपाधिरिति
तत्तदुपाभ्युपलक्षितजाग्रत्स्वप्नसुषुप्तयोप्युपाधिशब्देन व्यवहियन्ते (वाच ० ) ।
तथा च तेषां मायावादिनां मते [ १ ] उपाधिप्रविष्टं बाब्मनःप्राणकरण-
ग्रामानुप्रविष्टं ब्रह्म जीवः [२] घटावच्छिन्नाकाशवच्छरीरत्रितयाव-
च्छिनं चैतन्यम् [३] दर्पणमुखप्रतिबिम्बवत् बुद्धिवं चैतन्मप्रतिबि-
म्बम् [ ४ ] सामासाहंकारश्चित्प्रतिबिम्बम् [ ५ ] अन्तःकरणोपहितं
चैतन्यम् [ ६ ] अज्ञानस्य व्यष्टिशक्तिमेदो जीबः स च परमात्मनः
अभिनव इति बोध्यम् । अत्रोच्यते कार्योपाधिरयं जीवः कारणोपाधिरी-
श्वरः इति ( वेदा० प० ) । [ज ] अनेकान्तवादिनस्तु जीवास्तिका-
यसंज्ञया परिभाषितः पदार्थविशेष इत्याहुः । [ झ ] बोधात्मको
जीव: ( सर्व० सं० पृ० ६७ माई० ) । न्यायवैशेषिकनये जीवो
देहेन्द्रियार्थादिव्यतिरिक्तः । अत्र सूत्रम् इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेम्यो-
•र्थान्तरस्य हेतुः ( वै० ३ । १ । २ ) इति । तथा स जीवः परमात्मनः
सकाशादतिरिक्तः । अत्र सूत्रम् शाखसामर्थ्याच ( ३० ३१२१२१ ) ।
शास्त्रं च श्रुतिः द्वे ब्रह्मणी वेदितव्ये इत्यादि । तथा द्वा सुपर्णा सयुजा
सखाया समानं वृक्षं परिषखजाते । तयोरन्यः पिप्पलं खादत्त्यनअन्न-
म्योभिचाकशीति इति ( ३० उ० ३।२।२१ ) न च तत्वमसि
श्वेतकेतो ब्रह्मविद्रह्मैव भवति इत्यादिश्रुतीनां का गतिरिति वाच्यम् ।
वयमसि इति श्रुतेस्तदमेदेन तदीयत्वप्रतिपादनेवाभेद वापरत्वात् ।